भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 189, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 189

की आयु के बालक को रससिन्दूर आधी रत्ती की मात्रा में देना चाहिये । अधिक आयुवाले मनुष्यों के लिए इसकी पूर्ण मात्रा एक रत्ती की समझनी चाहिये ॥ २३५-२३७ ॥ मकरध्वजस्य निर्माणप्रकारः स्वर्णं तोलकसंमितं मृदुदलं युक्त्या विशुद्धीकृतं स्वर्णादष्टगुणोन्मितं रसवरं जीर्णाच्छसौगन्धिकम् । संस्कारैर्बहुभिर्विशोधितमथो सम्मेल्य सम्पेषयेत् गन्धं षोडशतोलकं सुविमलं कुर्यात्ततः कज्जलीम् ॥२३८॥ शोणैः कार्पासपुष्पैरथ मृदुविशदाङ्कोटमूलत्वचाद्भिः कन्यानीरैश्च घस्रं रसविधिचतुरो भावयेदामयज्ञः । सम्यक्पिष्टं सुशुष्कं त्वपि च रसवरं काचकूप्यां निदध्याद् बिल्वादीनाञ्च काष्ठैः सलिलविरहितैस्तापयेच्चाथ विद्वान् ॥२३६ पूर्वं यामद्वयं प्राज्ञः पचेन्मृद्वग्निना रसम् । मध्यमानलयोगाच्च ततो यामद्वयं पचेत् ॥२४०॥ प्रखरेणानलेनाथ पचेद्यामद्वयं भिषक् । अवशिष्टद्वियामञ्च पुनस्तीव्राग्निना पचेत् ॥२४१॥ यन्त्रे सिकतसंज्ञे च स्वाङ्गशीतमथोद्धरेत् । काचकूपीं विभिद्याथ सहकारसमप्रभम् ॥२४२॥ भङ्गेरक्तप्रतीकाशं पिष्टे रक्तोत्पलोपमम् । सौवर्णं मूर्च्छितं सूतं गृह्णीयाद्भिषजां वरः ॥२४३॥ नानेन जायते यस्मान्मकरध्वजसन्निभः । रसज्ञैः ख्यापितस्तस्मान्नाम्नायं मकरध्वजः ॥२४४॥ अथ मकरध्वजनिर्माणप्रकारः । स्वर्णमिति—मृदुदलं अत्यन्तमृदुदलमिति भावः । यथा पारदे सम्यङ्मेलनं स्यात् तथा पक्वं सत् स्थूलकणं नावशिष्यते इत्यभिप्रायः । युक्त्या शोधनं स्वर्णप्रकरणे वक्ष्यते । जीर्णाच्छसौगन्धिकं कच्छप- यन्त्रादिना जातगन्धकजारणम् । संस्कारैर्बहुभिः पूर्वोक्तैरष्टाभिरधिकैर्वा यथा- सम्प्रदायम् । शोणैः रक्तैः, घस्रम् दिवसमेकम् । बिल्वादीनाञ्च काष्ठैरिति विल्वादिकाष्ठग्रहणं समुचितापादनाय सलिलविरहितैरिति सुशुष्कैः, अवशिष्ट- द्वियामं पाकस्तीव्रानलेन, जीर्णगन्धकाचकूपीमुखमुद्रणोत्तरमिति द्योत्यते पुनः शब्देन । सिकतायन्त्रं बालुकायन्त्रं पूर्वोक्तम् । इदञ्च बहिर्धूमजारणप्रकारा- भिप्रायेण अन्तर्धूमजारणायै तु बालुकायन्त्रप्रकारान्तरं पूर्वमवोचाम । अधःसैकत-