रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 250, कुल 799 में से
संदर्भ में पढ़ें२१० रसतरङ्गिणी कविराजनरेन्द्रनाथमित्रकृतः चपलनिर्णयः दुर्देववशादायुर्वेदेष्वज्ञाता विद्वांसो नोपलभ्यन्त अद्यत्वे । न चाप्यस्ति काचि- त्संसद् या ह्यभिधेयेषु नियंत्री स्यात् । फलञ्चास्य यद् बहूनि द्रव्याणि सन्दिग्ध- कोटिष्वज्ञातकोटिषु वः स्थाप्यन्ते । किमधिकम्, तेष्वेव द्रव्येषु चपलोऽप्येवम् । न चायुर्वेदसरणिमनुसृत्य जीवितदातारो भिषजश्चपलमुपयुञ्जतेऽधुना। चपलस्या- नवबोध एव तत्र हेतुः । इदानीं यावन्नात्र विषये केनापि तत्त्वं प्रकाशितम् । यत्किमपि श्रूयते मन्दवाचोच्यमानं न मनःप्रीणनं तत् । केचित्तं "बिस्मथ" इत्यामनन्ति, तदसाम्प्रतम् । नहि चपलरूपः सः, न च तत्र चपलाश्रिता गुणाः। चपलः किं वस्तु इति निर्णायोक्तेः प्राग् अस्य स्वरूपे गुणेषु चावहितमनसा भवितव्यम् । प्राचीनेषु रसत्तन्त्रेष्वेक एनं महारसेष्वन्ये च साधारणरसेषु पठन्ति ! सोमदेवकृतरसेन्द्रचूडामणौ यथा— "कम्पिल्लश्चपलो गौरीपाषाणो नवसारकः । कपर्दो वह्निजारश्च गिरिसिन्दूरहिंगुलौ ॥ मृद्दारशृङ्गमित्यष्टौ साधारणरसाः स्मृताः ॥ रसार्णवे महारसेष्वयं परिगणितः— "माक्षीको विमलः शैलश्चपलो रसकस्तथा । सस्यको दरदश्चैव स्रोतोऽञ्जनमथाष्टमम् ॥ अष्टौ महारसाः................................॥” तथैवान्येषु तन्त्रेष्वपि । रसरत्नसमुच्चये तु— “अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् । चपलो रसकश्चेति ज्ञात्वाष्टौ संग्रहेद्रसान् ॥” इत्यनेन महारसेष्वस्य परिगणनं विधायाग्रे आचार्याणामत्र विकल्पः स्वयमेवोक्तः— “महारसेषु कैश्चिद्धि चपलः परिकीर्तितः ।” इत्यनेन । ग्रन्थसन्दर्भतत्त्वमिदं तु तन्त्रान्तरादेव याथातथ्येनोद्धृतं ग्रन्थकर्त्रा । अन्यथा— स्वयमेव महारसेषु संख्याय महारसेष्वित्यादिवचनमसङ्गतम् । उपरसास्तु गन्धा- श्मेत्यादिना तत्र पृथगुक्ता एव । स्यान्नाम चपलः साधारणरसो वा महारसो वा, नात्र विवेचनीयः सः । न चाप्यस्त्यस्मत्सन्निधौ कश्चिन्निकषग्रावा यत्र हि साधारणरसत्वं महारसत्वं वा परीक्ष्येत ।