भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 251, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 251

चपलनिर्णयः २११ "गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु चतुर्विधः । हेमाभश्चैव ताराभां विशेषाद्रसबन्धनः ॥ शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ ॥" "वङ्गवद् द्रवते वह्नौ चपलस्तेन कीर्तितः । चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः ॥" समुपलभ्यमानानि सर्वाणि तन्त्राण्यत्रैकमत्यं त्तमेवोद्घोषयन्ति । अत उक्तमेव स्वरूपं निर्णायकं प्रमाणं च । नात्रास्ति कश्चिद्विसंवादो यद्द्रव्यं गौरादिभेदेन चतुर्विधं वङ्गवद् द्रुतिशीलं वह्नौ, स्फटिकच्छायं, षडस्रि, गुरु च स चपलः । न चेदं स्वरूपमेकान्तेन बिस्मथधातौ, अन्वेषयद्भिश्चास्माभिः सेलिनियम (Selenium) द्रव्ये स्वरूपमिदं दृष्टम् । तथा चेदमस्माकमध्यवसायो यच्चपलः सेलिनियम एव । उक्तं च स्वरूपवर्णने सेलिनियमस्य— "Colour and properties—Steel-grey, non-metallic rods or buttons; very high lustter crystalline surface on being broken. Also occurs in the form of dark- red crystals or powder, soluble in carbon disulphide and melting between 170° and 180° C. Burns in air with a bluish red flame forming selenium dioxide," अस्यायमभिप्रायः—तीक्ष्णलोहाभधूम्रवर्णः, अधात्वीयशलाकासंस्थानः कुचेलकाकृतिर्वा, अतितीक्ष्णकान्तिश्चाकचिक्याढ्यः, त्रोटिते च पुष्पाकारोपरितलो भवति सेलिनियमः । पश्यन्तु समत्वम्—१. गौरश्चपलः, अत्र तीक्ष्णलोहाभधूम्रवर्णत्त्वं गुणः । धूम्रवर्णश्च श्वेतकृष्णवर्णयोः सङ्गमेन जायते । नतु गौरः श्वेतस्तत्र । श्वेतवर्ण- चपलस्य पृथगेव पाठात् । २. चपलः स्फटिकच्छायो भवति । अत्र च अधा- त्वीयशलाकाकृतिसंस्थान इत्यारभ्य पुष्पाकारोपरितल इति पर्यन्तं तस्यैव व्याकरणमात्रम् । तथा अयं च गाढरक्तवर्णोऽप्युपलभ्यते पुष्पाकृतिना चूर्णरूपेण वा, स च कोकिलद्विगन्धिकिते विलीनो भवति । सप्तत्युत्तरशतादशीत्युत्तरशतं यावदंशं शतांशतापमानयन्त्रस्य विद्रवीभवति तारल्यमुपलभ्यते वा । स च नीलिममिश्रि- तेन रक्तेनार्चिषा ज्वलन् वायौ सेलिनियमं द्व्यंापजनीयमापादयति । अत्रोक्तेन गाढरक्तवर्णेनारुणवर्णचपलस्य साम्यं स्पष्टम् । तथा च द्रुतिशी- लत्वमपि सदृशो गुणः ।