भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 252, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 252

२१२ रसतरङ्गिणी "Constants—Melting point 217° C. Boiling point 690° C. Soluble in concentrated sulphuric acid, inso- luble in water and alcohol," अस्यायमाशयः यत् सेलिनियमद्रव्यस्य द्रवीभावमानं २१७° शतांशस्य। आवर्तनमानञ्च ६६०° शतांशस्य, इमौ च स्थिरौ गुणौ। तीक्ष्णे विजले गन्धक- द्रावे विलीनो भवति। जले कोहलसङ्गे चायमविलेयः। चपलश्च वङ्गवद् द्रुतिशीलत्वेनैवास्य नाम चपल इत्यप्युक्तं प्राक्। "चपल" इतिनामकरणेऽस्य द्रुतिगुण एव मुख्यो हेतुः। सोऽपि द्रुतिगुणः वङ्गधात्वाश्रित- द्रुतिगुणेन सम एव चपले भवतीति प्राच्याः। वङ्गस्य द्रवीभावमानं यदाधुनिकै- वैज्ञानिकैः स्थिरं कृतं तत्तु २३२° शतांशयन्त्रस्येति। नात्रापि महदन्तरम्। "Derivation—Occurs in nature in copper ores from which it is removed during the electrolytic refining of copper in the mud which settles in the cells. It is obtained by extraction with alkali cyni- des and precipitation with hydrochloric acid followed by oxidation with nitric acid and evaporation sele- nium dioxide remaining." Method of Purification—By sublimation and re- duction by means of an aqueous of sulphur dioxide, "Uses—Bacteriology biological Chemistry etc." F. M. Turner, अत्रेदमाकूतम्—अयं हि खनेः समानीते ताम्रमिश्रितमुपलभ्यते। विद्युता च ताम्रनिर्मलीकरणप्रक्रियायां तत्र कोष्ठाधःपतितालतङ्कात् पृथक् क्रियते। क्षारीयाः साइनाइड-इत्याख्याः सेलिनियमं तस्मादपनयन्ति, पश्चादधः पात्यते लवणा- मूलसंयोगेन, ततश्च सोरकामूलयोगादोषजनाधानं कृत्वा वाष्पीकरणप्रक्रियया विशोष्यते। प्राप्तिश्च भवति द्व्योपजनीयसेलिनियमस्य। निर्मलीकरणप्रकारः—ऊर्ध्वपातनविधिना जलयोगापादितद्व्योषजनी- मन्धकद्रवसाहाय्येन पुनः स्वरूप आनयनेन च शुद्धो भवति सेलिनियमः। प्रयोगस्थानम्—कीटाणुविज्ञानप्राणिविज्ञानकरसायनतन्त्रादयः। आयुर्वे- दोक्तः शोधनप्रकारः— "शैलं विचूर्ण्यित्वा तु धान्याम्लोपविषैर्विषैः। पिण्डीं बद्ध्वा तु विधिवत्पातयेच्चपलं तथा॥" रसरत्नसमुच्चये।