रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 257, कुल 799 में से
संदर्भ में पढ़ेंचपलनिर्णयः २१५ द्वितीयस्तु घनद्रवरूपः प्रभेदो रक्तवर्णः-स ह्याप्यते जल्योग- मृदूकृताभ्यां हीनौषजनीय-सेलिनियममूलगन्धकामूलाभ्यां मिश्रणेन । शनैरत्र चाधः पतितः । तृतीयो गाढरक्तवर्णो सेलिनियमश्चूर्णरूपः । द्वितीया श्रेणी--उक्तयोः प्रथमतृतीयप्रभेदयोः कोकिलेद्विगन्धकि- तेन सह निरन्तरमवस्थानात् प्राप्यते । द्वावेव स्थिरौ प्रभेदावस्या रक्त- वर्णौ पुष्पाकारावधुना यावज्ज्ञातौ । द्रुतमग्नितापेन द्विशतेंऽशे तरली- भवन्ति पुष्पायनयोः, प्रादेशिकी च परिवृत्तिर्भवति धात्वीये रूपे । तथा च पुष्पाणां द्रवोभावायास्थिरतापज्ञापको बिन्दुः सप्तत्युत्तरशताद- शीत्युत्तरशतं यावदंशं कथ्यते । तृतीया श्रेणी धात्वीयुरूपा--प्राप्यते चेत् कोऽप्युक्तः सेलिनियमः द्विशतादाविंशत्युत्तरद्विशतमंशमुष्णोक्रियते । धात्वाकारः सेलिनियमो हि ताराभश्वेतः पिण्डरूपश्च भवति । अस्य चूर्णं कृष्णवर्णं, अतिश्लक्ष्णं सत् रक्तवर्णं जायते । कोकिलद्विगन्धकितेऽविलेयः । क्लोरोफार्म इत्याख्ये च विलेयः । सेल्लिनियमस्यावर्तनबिन्दुश्च नवत्युत्तरषट्शतमंशमिति । बाष्पाणि चोत्तिष्ठन्ति गाढरक्तवर्णकानि । अत्रापि चपलेन साम्यं स्पष्टम् । चपलोऽरुणवर्णः, द्वितीयायां श्रेण्यामागतौ सेलिनियमप्रभेदावपि रक्तवर्णौ । चपलः श्वेतः ताराभश्चः । तृतीयायां श्रेण्यामागंतो धात्वीयः सेल्लिनियमोऽपि ताराभः श्वेतः । चपलस्य षडस्रित्वमप्येको गुणः स्वरूपनिर्णायकः । सेलिनियमोऽपि षडस्र भवति । उक्तं च-- "A third variety, isomorphous with the crystals of cellurium and belonging to the hexagonal system is obtained at temperature above 120.° Roscoe and Schorlemmer. त्रिंशोत्तरशतादधिकेन तापेन टेलुरिङ्गम (तत्त्वविशेष)-पुष्पाकृ- तीनि षडस्रीणि चास्य पुष्पाण्युपपाद्यन्ते । 'ये च घनद्रवरूपादिप्रभेदाः सेलिनियमस्य ते च लाक्षावच्छीघ्रद्रा- वास्तु निष्फलाः' इत्यनेनैव रसतन्त्रेषु गृहीताः । अनेन व्याख्यानेनेदं तु व्यक्तं यद्रसतन्त्रोक्तश्चपलो गौरादिवर्णकः स्फटिकच्छायो वङ्गवद् द्रुतिशीलः स्निग्धो गुरुश्च सेलिनियमेन बाह्येषु