रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 277, कुल 799 में से
संदर्भ में पढ़ेंदशमस्तरङ्गः २३५ अथ अभ्रकस्य आमयिकः प्रयोगः रससिन्दूरसंयुक्तं मृताभ्रं नाशयेज्ज्वरान् । सचौद्रं सकणञ्चापि जीर्णज्वरविनाशनम् ॥ ७४ ॥ सचौद्रं सवरं व्योम दृष्टिशक्तिकरं परम् । सव्योषं सघृतञ्चैतद् ग्रहणीं नाशयेत् क्षणात् ॥ ७५ ॥ हरीतकीगुडोपेतं शर्करैलासमन्वितम् । मृताभ्रं सेव्यमानन्तु रक्तपित्तहरं परम् ॥ ७६ ॥ सव्योषं सवरञ्चैव चातुर्जातकसंयुतम् । सचौद्रं क्षपयेदंशः पाण्डुक्षयहलीमकान् ॥ ७७ ॥ मृताभ्रं रजनायुक्तं कणया मधुनापि च । मासमेकं लिहेत्प्राज्ञो मेहरोगाद्विमुच्यते ॥ ७८ ॥ मृतकाञ्चनसंयुक्तं मृताभ्रं माससेवितम् । धातुवृद्धिकरं पुंसां विशेषात्क्षयनाशनम् ॥ ७९ ॥ गुडूचीसत्त्वसंयुक्तं मेहवर्गप्रणाशनम् । तारस्वर्णयुतं त्वभ्रं शुक्रसन्तानकारकम् ॥ ८० ॥ भूधात्रिकागोक्षुरचन्द्रवालारुतान्वितं गव्यघृतेन लीढम् । संसेव्यमानं गगनं तु तूर्णं विनाशयेद् दारुणमूत्रकृच्छ्रम् ॥ ८१ ॥ क्षाराष्टकयुतं त्वभ्रं मूत्राघातं विनाशयेत् । अश्मरीं मूत्रकृच्छ्रञ्च विशेषादग्निदीपनम् ॥ ८२ ॥ मूर्वाक्वाथसमायुक्तं मृताभ्रं व्रणनाशनम् । पयस्यागव्यदुग्धाभ्यां परमं बलवर्द्धनम् ॥ ८३ ॥ भल्लातकान्वितं व्योम त्वर्शांस क्षपयेद् ध्रुवम् । लवङ्गक्षौद्रसंयुक्तं धातुवृद्धिकरं परम् ॥ ८४ ॥ विजयास्वरसोपेतं जात फलसमन्वितम् । मृताभ्रं जुषतां पुंसां शुक्रस्तम्भः प्रजायते ॥ ८५ ॥ विश्वभेषजपौष्करान्वितं विप्रयष्टितुरगासमन्वितम् । सेवितं समधु मारिताभ्रकं नाशयेज्झटिति मारुतामयम् ॥ ८६ ॥ अभ्रं कज्जलिकोपेतमर्जुनक्वाथभावितम् । कृमजं श्लैष्मिकं वापि विनिहन्ति हृदामयम् ॥ ८७ ॥ ससितं सचतुर्जातं त्वभ्रं पित्तामयापहम् ।