रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 308, कुल 799 में से
संदर्भ में पढ़ें२६६ रसतरङ्गिणी नाम । तत्र हि धातुविषतया सङ्गृहीतमेतत् । उक्तं हि “फेनाश्मभस्म हरिताल- ञ्चेति धातुविषे” । क्वचिद् विकटनाम्नापि व्यवहृत इति ॥ १३०-१३१ ॥ भा.टी.—शंखमूष, शंखविष, गौरीपाषाण, दारूमूष, दारूमूषा, दारुमोच, मल्लक, फेनाश्मभस्म, सोमल, सम्बल, आखुपाषाण, इन नामों से संखिया शास्त्रों में व्यवहृत होता है ॥ १३०-१३१ ॥ शङ्खविषस्य द्वैविध्यम् मल्लस्तु द्विविधः प्रोक्तः श्वेतोऽन्यो रक्तकस्तथा । कृत्रिमः श्वेतमल्लस्तु रक्तश्चाकरसंभवः ॥ १३२ ॥ अथास्य भेदाः—श्वेतरक्तवर्णभेदेन मल्लो द्विधा इति सोऽयं द्वेधा विभागः योगरत्नाकराद्युक्त एव रसतन्त्रे व्यवहारार्थमनूदित आचार्यैः । तथाच योगरत्ना- करे “गौरीपाषाणकः प्रोक्तो द्विविधः श्वेतरक्तकः । श्वेतः शङ्खसदृग् रक्तो दाडि- माभः प्रकीर्तितः ॥ श्वेतः कृत्रिमकः प्रोक्तो रक्तः पर्वत-सम्भवः । विपरूपधरौ तौ हि रसकर्मणि पूजितौ ॥” इति । वस्तुतस्तु श्वेतरक्तपीतकृष्णभेदेन चतुर्विधः प्राप्यते मल्लः । तत्र श्वेत एव बहुव्यवहार्यः । इतरे तु क्वचिदेवेति विशेषः । अत्रापि सर्वत्र श्वेतमल्लस्यैव प्रयोगा निर्दिष्टा इति विभावनीयम् ॥ १३२ ॥ भा.टी.—संखिया के दो भेद माने गये हैं । १—श्वेत संखिया, २—रक्त (लाल) संखिया । इनमें से सफेद संखिया कृत्रिम (बनाया हुआ) और लाल संखिया खनिज होता है ॥ १३२ ॥ वक्तव्य—वास्तव में संखिया श्वेत रक्त पीत कृष्ण भेद से चार प्रकार का होता है । परन्तु इनमें से श्वेत मल्ल अधिक व्यवहार में आता है । अथ शङ्खविषस्य शोधनम् सुचूर्णितं शंखविषं दृढं वस्त्रेण रोधयेत् । मेघनादरसेनैव दोलायन्त्रे विपाचयेत् ॥ १३३ ॥ मृद्वग्निना दिनैकन्तु शुद्धिमायात्यनुत्तमाम् । इत्थं विशोधितं शंखविषं यत्नेन योजयेत् ॥ १३४ ॥ अथास्या शोधनम्—मेघनादस्तण्डुलीयकः । कारवेल्लीरसेन शोधनं साम्प्र- दायिकम् । काञ्जिकेनापि दोलायन्त्रविधिना शुध्यति मल्लः ॥ १३३-१३४ ॥ भा.टी.—संखिया का मोटा-मोटा चूर्ण करके एक दृढ़ वस्त्र में अच्छी तरह बाँध कर पोटली बना लें । अब इस पोटली को दोलायन्त्र में चौलाई का