रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 312, कुल 799 में से
संदर्भ में पढ़ें२७० रसतरङ्गिणी देशकालादिकं वीक्ष्य रोगिणश्च बलाबलम् । मात्रां प्रकल्पयेद्धीरो रसायनचिकित्सकः ॥ १५२ ॥ मात्रानिर्माणे सावधानताऽपेक्षिता, मारकत्वादपप्रयुक्तस्य ॥१५१-१५२॥ भा.टी.-क्योंकि एक रत्ती सोमल के खाने से मनुष्य की मृत्यु हो जाती है। अतः देश, काल, अवस्था, रोगी का बल, दोष आदि का विचार करके बड़ी सावधानी से इसकी मात्रा निर्धारित करनी चाहिये ॥ १५१-१५२ ॥ शङ्खविषस्य आमयिकः प्रयोगः वासासत्त्वेन वा व्याघ्रीचूर्णेन परिशीलितः । मल्लश्चिरोत्थितञ्चातिदारुणं श्वासमुद्धरेत् ॥ १५३ ॥ पञ्चतिक्तस्य सत्त्वेन चूर्णेनाप्यथवाशितः । मल्लो विनाशयत्याशु कुष्ठानि विविधानि तु ॥ १५४ ॥ गुडूच्यर्कशिफाचूर्णैर्यत्नतः परिशीलितः । मल्लः सुनिर्मलस्तूर्णं निहन्ति श्लीपदज्वरम् ॥ १५५ ॥ करञ्जबीजचूर्णेन सेवितः सम्बलोऽमलः । शीतज्वरं निहन्त्याशु दिनैकेन न संशयः ॥१५६॥ शुण्ठीपुनर्नवाचूर्णैर्मल्लस्त्रिदिनसेवनात् । आमवातं हरेद् घोरं ज्वरञ्चापि तदुद्भवम् ॥ १५७ ॥ विशोधितं शंखविषं सलोहं परिशीलितम् । नाशयत्यचिरादेव पाण्डुरोगं चिरोत्थितम् ॥ १५८ ॥ जातिपत्रोलवङ्गाभ्यां मल्लः संसेवितोऽमलः । नाशयत्याशु नियतं फिरङ्गमतिदारुणम् ॥ १५६ ॥ रससिन्दूरलोहाभ्यां यक्ष्माणं नाशयेद् ध्रुवम् । शङ्खिनीचूर्णसंयुक्तं हृद्दौर्बल्यं विनाशयेत् ॥१६०॥ शुण्ठीमरिचचूर्णेन श्वेतमल्लो निषेवितः । भुक्तमात्रसमुद्भूतमतीसारं विनाशयेत् ॥ १६१ ॥ जलेन लेपयेद्यत्नान् मल्लं वृश्चिकदंशने । नाशयेद् घटिकार्धेन वृश्चिकार्तिं सुदारुणाम् ॥ १६२ ॥ शंखविषस्य रोगयोग्यः प्रयोगः-अर्कशिफा अर्कमूलम् । श्लीपदज्वरं च “शाखायां मुष्कयोर्वापि रोगशोथरुजाकरः । पश्चान्ते प्रायशो भावी ज्वरः श्लैप-