भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 339, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 339

त्रयोदशस्तरङ्गः ३१३ निम्बूकाम्लीययवजस्य मात्रा आरभ्य पञ्चगुञ्जातो दशगुञ्जोन्मितं परम् । निम्बूकाम्लीययवजं प्राणाचार्यैः प्रयोजयेत् ॥ ४० ॥ भा.टी.—निम्बूकाम्लीय यवज की मात्रा पाँच रत्ती से लेकर दस रत्ती तक प्रयुक्त की जाती है ॥ ४० ॥ अस्य आमयिकः प्रयोगः तत्तद्रोगविशेषेषु सलिलाद्यनुपानतः । निम्बूकाम्लीययवजं योजयेन्मात्रया भिषक् ॥ ४१ ॥ अस्य गुणाः—विशेषाद् वृक्करोगापनयनक्षमः । मात्रा १० गुञ्जापर्यन्तम् । अयं सलिले सन्द्राव्य प्रायशः प्रयुज्यते ॥ ४१ ॥ भा.टी.—निम्बूकाम्लीय यवक्षार को भिन्न-भिन्न रोगों में जल आदि द्रवों के अनुपान से आवश्यकतानुसार प्रयोग किया जाता है ॥ ४१ ॥ अथ सर्जिक्षारस्य नामानि स्वर्जिकः स्वर्जिका स्वर्जिः स्वर्जः स्वर्जी सुवर्चिका । स्वर्जका स्वर्जिकाक्षारः सर्जिः सर्जी च सर्जिका ॥ ४२ ॥ सुवर्चकः सुवर्चिश्च सुवर्चोऽथ सुवर्चिकः । सुखोर्जिकः कपोतश्च सुखवर्चः सुखार्जिकः ॥ ४३ ॥ रुचकं स्वर्जिकाक्षारः सर्जिक्षारस्तथैव च । सौवर्चलं सुवर्चों च समाख्यातो भिषग्वरैः ॥ ४४ ॥ सर्जिक्षारनामानि तानि-तानि तन्त्रेषु व्यवहृतानि ॥ ४२-४४ ॥ भा.टी.—स्वर्जिक, स्वर्जिका, स्वर्जि, स्वर्जा, सुवर्चिका, स्वर्जका, स्वर्जि- काक्षार, सर्जि, सर्जी, सर्जिका, सुवर्चक, सुवर्चि, सुवर्च, सुवर्चिक, सुखोर्जिक, कपोत, सुखवर्च, सुखार्जिक, रुचक, स्वर्जिकाक्षार, सर्जिक्षार, सौवर्चल, सुवर्चि, ये सब नाम सज्जीखार के कहे जाते हैं ॥ ४२-४४ ॥ सर्जिक्षारस्य निर्माणप्रकारः उष्ट्रप्रियाक्षुपं दग्ध्वा यत्नात् क्षारं समाहरेत् । तोयेऽष्टगुणिते क्षिप्त्वा भाजने विमले ततः ॥ ४५ ॥ सप्तकृत्वः प्रयत्नेन स्रावयेत्पृथुवाससा । स्रावितं सलिलञ्चाथ पचेद् गाढं भिषग्वरः ॥ ४६ ॥