रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 346, कुल 799 में से
संदर्भ में पढ़ें३२० रसतरङ्गिणी टङ्कः सूतविकारोत्थं लालास्रावं विनाशयेत् ॥ ८४ ॥ सबीलष्टङ्कणो युक्त्या मुहुर्मुद्भवघर्षितः । विनाशयेत् क्षतं घोरं दन्तवेष्टसमुत्थितम् ॥ ८५ ॥ विमलष्टङ्कणक्षारश्चूषितस्तु शनैः शनैः । स्वरावरोधं कण्ठस्य नाशयेदतिसत्वरम् ॥८६॥ सव्यूषणष्टङ्कणस्तु मधुना परिशीलितः । विनाशयेत् क्षणेनैव त्वाध्मानमतिदारुणम् ॥ ८७ ॥ सरामठः सयवजष्टङ्कणः परिशीलितः । सन्ध्याद्वये सप्तदिनं नाशयेत् स्नायुकामयम् ॥८८॥ लवङ्गशुण्ठीमरिचंसमुपेतस्तु टङ्कणः । मयूरक्षारसंयुक्तो भुक्तमांसादिजारणः ॥ ८९ ॥ सुचूर्णितष्टङ्कणस्तु व्रणेषु त्ववचूर्णनात् । निहन्ति रुधिरस्रावं सद्य एव सुदारुणम् ॥६०॥ टङ्कणं वह्निसम्भृष्टं मधुना सह लेपयेत् । मुखपाकं निहन्त्याशु दाहशोथादिसंयुतम् ॥६१॥ सुचूर्णितं टङ्कणन्तु द्रावयेद्विमले जले । योनौ बस्तिप्रयोगेण पिडकादिरुजं हरेत् ॥६२॥ पुरातनगुडोपेतष्टङ्कणस्तु विचूर्णितः । अवचूर्णनयोगेन प्रशस्तो व्रणरोपणे ॥६३॥ सौभाग्यं वह्निसम्भृष्टं श्वेतचन्दनपङ्कय क्। लेपेन नाशयत्याशु सिध्मरोगं न संशयः ॥६४॥ काकमाचीद्रवोपेतं टङ्कणं परिशीलिम् । विनिहन्यचिरादेव वमिं खलु सुदारुणाम् ॥ ६५ ॥ अथास्य रोगयोग्यः प्रयोगः—सिंही वासकः; “भिषङ्माता च सिंहिका” इति निघण्टुः । स्नायुकामयः “नहरुवा” इति भाषाप्रसिद्धः । मयूरक्षारः अपा- मार्गक्षारः ॥ ८२-६५ ॥ भा.टी.—कफ को पतला करने के लिये टंकण को कायफल, त्रिकटु, वासा- क्षार, जवाखार के साथ मिला प्रयोग किया जाता है । उदररोगों में मृदुरेचन के लिये सुहागे में त्रिकटुचूर्ण और इसके समभाग शुद्ध जमालघोटा मिलाकर बनायी हुई गोलियाँ दी जाती हैं । अशुद्धपारद के खाने से उत्पन्न होनेवाले लालास्राव