रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 385, कुल 799 में से
संदर्भ में पढ़ेंचतुर्दशस्तरङ्गः ३५६ अस्य आमयिकः प्रयोगः अन्नस्यामाशयस्थस्य विपाके तु द्वितीयेके। लवणाम्लविहीनत्वादू यदजीर्णं प्रजायते ॥ १७६ ॥ तस्मिन्नजीर्णे मतिमान् रोगिणं कृतभोजनम् । दशबिन्दुमितं युक्त्या पटुद्रावन्तु पाययेत् ॥ १७७ ॥ पानमात्रेण गात्राणां गौरवञ्चाप्यजीर्णकम् । नाशयित्वा बुभुक्षान्तु जनयत्याशु निर्भरम् ॥ १७८ ॥ लवणद्रावकाधिक्यादामाशयसमुद्भवे । अजीर्णे लवणद्रावं भोजनादौ प्रयोजयेत् ॥ १७९ ॥ सक्षारे खलु प्रस्रावे क्षारमेहे च युक्तितः । शीलितो लवणद्रावो निर्दिष्टातङ्कनाशनः ॥ १८० ॥ शीलितस्तु पटुद्रावः शुष्कजिह्वं हतस्वरम् । मृदुप्रलापसहितं हृद्दौर्बल्यसमायुतम् ॥ १८१ ॥ अस्पष्टनाडिकं चैव कदाचिद् द्रुतनाडिकम् । मूत्रणे प्रस्रवद्गूथं नाशयत्यान्त्रिकज्वरम् ॥ १८२ ॥ सततं लवणद्रावो मात्रया परिशीलितः । अफूफसेवनोद्भूतं दौर्बल्यं हन्ति निश्चितम् ॥ १८३ ॥ सजलस्तु पटुद्रावः शीलितः प्रचुराम्भसा । अरुचिं वह्निमान्द्यं च नाशयत्यविकल्पतः ॥ १८४ ॥ आमाशयस्य लवणाम्लहीनत्वाजातमजीर्णञ्चेत् भोजनोत्तरमस्य प्रयोगः, लवणाम्लस्य आधिक्ये तु भोजनात् प्रागेवेति विशेषः। आन्त्रिकज्वरस्य च तासु तासु निर्दिष्टावस्थासु विशेषफलकरः। अहिफेनसेवनजातदौर्बल्यमवश्यमपनयति, प्रचुराम्भसा शीलनं तीक्ष्णतापरिहाराय । एवं च अविकल्पतः निःसन्देहं अरुचिं मन्दाग्निश्च नाशयतीति ॥ १७६–१८४ ॥ इति क्षारविशेषादिविज्ञानीयो नाम चतुर्दशस्तरङ्गः भा.टी.-खाये हुए भोजन के आमाशय में पहुँचने पर उसका द्वितीय विपाक अर्थात् आमाशयिक रस द्वारा पाक होने लगता है। यदि ऐसी अवस्था में आमाशय में लवणाम्ल की कमी के कारण अजीर्ण, आमाशयगुरुता, स्तब्धता, उद्गार आदि हो जाय तो इस प्रकार के अजीर्ण में रोगी को भोजन खिलाकर दस बूँद सजललवणद्राव का पर्याप्त जल में मिलाकर पिला दें। इसके पीने