रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 392, कुल 799 में से
संदर्भ में पढ़ें६३६ रसतरङ्गिणी लेपं प्रशुष्कं प्रसमीक्ष्य वैद्यः शरावसंस्थानि तु कोकिलाग्नौ । पुटेत्पुटे कुक्कुटसंज्ञके तु स्वर्णं भवेच्छोडशवर्णतुल्यम् ॥१९॥ द्वितीयः शोधनप्रकारः—कोकिला अङ्गाराः षोडशवर्णं उज्ज्वलरक्तसर्वां- शशुद्धम् ॥ १८, १६ ॥ भा.टी.—एक तोले परिमाण के स्वर्ण के पत्रों पर सैन्धानमक, जंगली उपलों की राख बिजौरानीबू के रस में घोटकर इसका लेप कर दें । जब इन पर का लेप सूख जाय तो इन्हें एक शराव में रखकर कुक्कुटपुट की कोयलों की अग्नि में पुट देवें तो स्वर्ण सर्वांश शुद्ध उज्ज्वल रक्तवर्ण हो जाता है ॥१८-१६॥ तृतीयः शोधनप्रकारः सूचीवेध्यानि पत्राणि सुवर्णस्य समाहरेत् । कर्तर्या कर्तयेच्चाथ कणान् सूक्ष्मांस्तु कारयेत् ॥ २० ॥ मृल्लिप्ते काचपात्रे च न्यसेत्स्वर्णकणांस्ततः । त्रिपादिकायां विन्यस्य सुरादीपाग्निना पचेत् ॥ २१ ॥ लवणद्रावकं तत्र निक्षिपेत्तु शनैः शनैः । सोरकद्रावकञ्चाथ पूर्वद्रावस्य पादिकम् ॥ २२ ॥ विधिज्ञो निक्षिपेद्यावद् द्रवतां याति काञ्चनम् । किञ्चित्कालं पचेच्चाथ द्रवाधिक्यनिवृत्तये ॥ २३ ॥ सलिलञ्चाथ निक्षिप्य पचेदथ विधानवित् । सजलं चणकाम्लञ्च तावत्तत्र विनिक्षिपेत् ॥ २४ ॥ यावत्खलु सुवर्णस्य चणकाम्लस्य योगतः । अतिसूक्ष्मकणं चूर्णं पात्राधः पतितं भवेत् ॥ २५ ॥ विनश्यत्यम्लता यावत् तावत्प्रक्षालयेज्जलैः । संशोष्य चाथ मतिमान् विशुद्धं स्वर्णमाहरेत् ॥ २६ ॥ तृतीयः शोधनप्रकारो नवीनैः परिभाषितः—काचपात्रस्य मृदा लेपः वह्नितापसहत्वसम्पादनाय । सुरादीपपरिचयः पूर्वमुक्तः, सुरादीपप्रयोगश्च स्थिर- तासम्पादनाय । शनैः शनैः लवणद्रावकप्रक्षेपः सुवर्णगालनयोग्यताज्ञानाय । चणकाम्लकं चणकद्रुमनिपतितावश्यायपाकजातम् “Oxalic Acid” इत्याङ्ग्ल- भाषायाम् । स्पष्टमन्यत् ॥ २०-२६ ॥ भा.टी.—पहिले स्वर्ण के सूचीवेध्य पत्रों को लेकर इनको कैंची से काटकर इनके बहुत छोटे टुकड़े बना लें । अब इन टुकड़ों को मिट्टी से लिप्त किये