भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 426, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 426

निवृत्ते तु किलाटाभं वस्तुपाते तु निश्चितम्। न क्षिपेल्लवणद्रावं रसायनविधानवित् ॥ ८१ ॥ अल्पकालावसानेऽथ जलीयांशं तदूर्ध्वगम्। निपातयेत्प्रयत्नेन किलाटीभपदार्थतः ॥ ८२ ॥ पीताश्वध्नसुमाकारप्रणाल्यां सारकं दलम्। विन्यस्य चेदं रजतं क्षालयेद्विमलाम्भसा ॥ ८३ ॥ जलं सारकपत्रान्तर्निर्यातं तलपात्रगम्। परीक्षेत प्रयत्नेन रसायनविधानवित् ॥ ८४ ॥ आदायैतज्जलं प्राज्ञः शरावे स्वल्पमात्रकम्। नृसारबाष्पसंयुक्तं द्रवं किञ्चिद्विनिक्षिपेत् ॥ ८५ ॥ नृसारबाष्पसंयुक्तं द्रवक्षेपेण चेदिदम्। जलं नीलत्वमायाति तदा धौतं तु रौप्यकम् ॥ ८६ ॥ सताम्रमधुनापीति व्यवस्येद्रसकोविदः । तारं प्रक्षालयेद्यावन्न जहाति हि नीलताम् ॥ ८७ ॥ ताम्रांशरहितं रौप्यं काचपात्रे ततो न्यसेत् । जलेनाप्लाव्य स्वल्पं तु लवणद्रावकं क्षिपेत् ॥ ८८ ॥ यशदस्य च पत्राणि स्वल्पानीह क्षिपेत्तथा। अल्पकालावसानेऽथ रौप्यं ताम्रादिवर्जितम् ॥ ८९ ॥ भस्मप्रभं काचपात्रतलगं जायते ध्रुवम्। ततः खलु व्यतिक्रान्ते सप्ताहे वा दिनाष्टके ॥ ९० ॥ रौप्यं रक्षन् जलीयांशं प्रयत्नेनापसारयेत् । ततः सारकपत्रेण रौप्यं भस्मप्रभं पुनः ॥ ९१ ॥ वार्षिकेणाम्भसा विज्ञः क्षालयेदविलम्बितम् । ततः सारकपत्रान्तर्निर्यातं सलिलं पुनः ॥ ९२ ॥ प्रयत्नेन परीक्षेत रसायनविशारदः । आदायैतज्जलं स्वल्पं काचपात्रे तु विन्यसेत् ॥ ९३ ॥ नृसारबाष्पसंयुक्तं जलं किञ्चिद्विनिक्षिपेत् । नृसारबाष्पसंयुक्तजलक्षेपेण चेदिदम् ॥ ९४ ॥ जलं शुक्लत्वमायाति तदा तारन्तु निश्चितम् । सद्रावमधुनापीति व्यवस्येद्रसकोविदः ॥ ९५ ॥

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक) · पृष्ठ 426, कुल 799 में से · BharatKosha