रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 43, कुल 799 में से
संदर्भ में पढ़ेंॐ रसतरङ्गिणी श्रीकंसमर्द्दिन्यै नमः अथ रसशालाविज्ञानीयः प्रथमस्तरंगः गणेशमुखचुम्बिनी सुरकदम्बकादम्बिनी दयारसतरङ्गिणी दनुजसङ्घसंहारिणी । अघव्रजविडम्बिनी हरकुटुम्बिनी सन्ततं भवत्वमरवन्दिता मम हृदन्तरालम्बिनी ॥ १ ॥ प्रसादिनी ध्रुवोऽखिलनमस्कृतः स्थिरतनुश्च यत्साधकः समस्तगुणमण्डितो जगति यन्नियुक्तो बलिः ॥ यवोऽतनुरपि स्मरस्तनुयुतोऽनिरुद्धस्थितिः स नोऽवतु समंततो मुरहरः सदा पारदः ॥ १ ॥ अथ खलु रसतन्त्रविविदिषामुह्यन्मनुजमानसमलमोषिणीं रसतरङ्गिणी- माविष्करिष्यन्नाचार्यः सम्भावितप्रत्यूहन्यूहापोहाय शिष्टाचारानुमितस्मृत्यनुमित- श्रुतिबोधितकर्तव्यताकम्मङ्गलमाचरन् स्वेष्टदेवतामुपश्लोकयति—गणेशमुखचुम्बि- नीत्यादिना पृथ्वीवृत्तेन । गणेशो विघ्नहरः, तस्य मुखं चुम्बतीति, सुतवत्सल- तया, गणेशः पार्वतीसुतः इति पौराणिकस्मरणात् । अत्र चादौ गणेशनाम- कीर्तनमपि माङ्गलिकमित्यपि रहस्यम् । सुरकदम्बः = देवसमूहः तत्र काद- म्बिनी = सामूहिका प्रधानभूतेति यावत्, दया = करुणा एव रसस्तस्य तरङ्गि- णीव अत्यन्तदयायुक्तेति यावत्, दनुजसङ्घां = दैत्यसमूहस्तस्य संहारिणी = विनाशिका, अघव्रजः=पापसमूहः तस्य विडम्बिना=अपहरणशीला, अमर- वंदिता=देवैः स्तुता, नमस्कृता च, हरकुटुम्बिनी=शिवस्यार्धाङ्गिनो, संततं = निर- न्तरं मम हृदंतरालम्बिनी = मानसमध्यस्थायिनी भवतु इत्याशीः प्रार्थनम् ॥१॥ भा.टी.—गणेशजी के मुख को प्यार करनेवाली, देवसमूह में प्रथम पूजनीया, अत्यन्त दयावाली, दैत्य समूह को विनाश करनेवाली, पाप समूह