रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 44, कुल 799 में से
संदर्भ में पढ़ेंको नष्ट करनेवाली, शिव के आधे भाग में विराजमान और देवसमूह से पूजनीया श्रीपार्वती देवी मेरे हृदय में वास करें ॥ १ ॥ ज्योतिःशास्त्रमहाम्भोधिकर्णधारं नमाम्यहम् । जीवानन्दं तु पितरं मातरञ्च सरस्वतीम् ॥२॥ ज्योतिःशास्त्रेत्यादिना पित्रोर्नमस्कारः ॥२॥ भा.टी.—ज्योतिष शास्त्ररूपी समुद्र में नाविक स्वरूप पिता श्री पं० जीवानन्दजी, एवं माता सरस्वतीदेवी को नमस्कार करता हूँ ॥ २ ॥ क्वाहं विमूढधिषणाः क्व च सूततन्त्र- माकुण्ठितामलधियामपि यत्र बुद्धिः । सत्यं तदेतदपि तत्र तथापि यत्नः साफल्यमेष्यति गुरोरनुकम्पयाऽयम् ॥ ३ ॥ गुर्वानुकम्पासामर्थ्यं प्रकटयन् स्वाभिमानमपाकरोति क्वाह्मिति—विमूढधि- षणाः मुग्धबुद्धिः अहं क्व ? अमलधियां निर्मलमतीनामपि यत्र सूततन्त्रे बुद्धिः आकुण्ठिता स्यादिति शेषः, तादृशं सूततंत्रं पारदसाधनशास्त्रं च क्व ? अहो वैषम्यम् । अपि यद्यप्यर्थे, यद्यपि तदेतत् वैषम्यं सत्यं, तथापि तत्रायं यत्नः रस- तरङ्गिणीनिर्माणरूपः गुरोरनुकम्पया साफल्यमेष्यति ॥३॥ भा.टी.—स्वच्छ एवं पवित्र बुद्धिमान् वैद्यों की बुद्धि भी जिस रसशास्त्र में कुंठित हो जाती है उसमें मेरे जैसे अल्पज्ञ की बुद्धि कुंठित हो तो यह स्वाभाविक है फिर भी गुरु की कृपा से यह परिश्रम मेरा सफल होगा ऐसा विश्वास है॥३॥ य इह गुरुसमीपे यत्नतोऽब्दान्त्रयेण रसनिगमनिगूढग्रन्थितत्त्वावबोधः । अपि च गुरुरहस्यः कर्ममार्गोऽप्यकारि सरलमधुरपद्यैर्ग्रन्थ्यते वै स एव ॥ ४ ॥ ननु क्रियमाणोऽयं भवद्यत्नो रसयोगसंग्रहफल एवेति कृतं प्रयत्नेन, तादृश- संग्रहाणां बाहुल्यात् इति चेत्तत्राह, य इहेति—यत्नतः शिष्यधर्मपालनपरतया रसनिगमे रसशास्त्रे निगूढा यत्नलभ्याः ये ग्रंथयः आवरणसामान्याद् गुप्तरह- स्यस्थलानि, तेषां यः तत्त्वावबोधो मर्मज्ञानं गुरुसमीपे मया अकारि, अपि च गुरुणा बोधितं रहस्यं यस्य तादृशः, कर्ममार्गः, रचनात्मकः क्रमोऽपि अकारि स एव सरलमधुरपद्यैः सुखेनैवार्थज्ञापकैः मधुरैश्च श्लोकैः ग्रध्यते, नतु संग्रह- मात्रमिति भावः ॥४॥