रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 49, कुल 799 में से
संदर्भ में पढ़ेंप्रथमस्तरङ्गः ७ काचमृत्काष्ठलोहादिनिर्मितानि बहूनि च । पात्राणि कारयेद्धीमान् यत्नतः पात्रमानवित् ॥१६॥ सन्दंशिका कर्तरी च तथा शूर्पमुदूखलम् । चालनी वह्निमित्रा च स्थापनीया प्रयत्नतः ॥२०॥ दोलायन्त्रादिकानाञ्च सामग्रीं निखिलामपि । सुरक्षिते प्रदेशे तु स्थापयेद्भिषजाग्रणीः ॥२१॥ सुदृढा विविधाकाराः कूपिकाः काचनिर्मिताः । सपिधानाः सिद्धरसस्थापनाय समाहरेत् ॥२२॥ विविधानि सुरूपाणि पित्तलादि कृतानि च । मानयुक्तानि वै वैद्यस्तुलायन्त्राणि रचयेत् ॥२३॥ मसृणान्यतिनूतनानि कागदानि सितानि तु । रसौषधप्रदानार्थं प्रशस्यन्ते भिषग्वरैः ॥२४॥ वन्योत्पलानि काष्ठानि तुषादीनि तृणानि च । शिखित्रान् कोकिलांश्चापि रक्षयेद्भिषजां वरः ॥२५॥ यच्चान्यदुपयोगि स्याद् देशकालाद्यपेक्षया । तत्तत्संस्थापयेत्तत्र रसकर्मविशारदः ॥२६॥ प्रत्यहं कारयेद्धीमान् शालायां मार्जनादिकम् । भृत्यैः कर्मसु निष्णातैः सदाऽऽतङ्कनिवृत्तये ॥२७॥ प्रसङ्गादुपकरणद्रव्याणि -- द्रोणीरूपाः = नौकाकाराः, वर्तुलाः = गोलाः, तद् योग्याः खल्वसमानोपादानाः । सन्दंशिका वस्तुदृढग्रहणसाधनम् , चालनी औषधादिशोधनी "तितउ" इति ख्याता, वह्निमित्रा = मूषा, सुरक्षिते रजः- कृम्यादिवर्जिते, सपिधानाः यथायोगं कोमलकाष्ठकाचादिनिर्मितमुखावरणा- न्विताः, विविधानि लघूनि बृहन्ति च, मसृणानि = सुचिकणानि अतिनूतनानि, पुरातनानि विदीर्य्यन्ते, कागदानि सितानि मस्यादिसम्पर्करहितानि तथा च मुद्रितपत्रेष्वौषधं न्यस्तं विगुणीभवतीति । वन्योत्पलानि वने स्वयं शुष्काणि, शिखित्रः जलनिर्वापितं दग्धकाष्ठं, कोकिलः सबाष्परोधं निर्वापितमिति भेदः । "शिखित्राः पावकोच्छिष्टा अङ्गाराः कथिताः पुनः । कोकिलाश्चेतिताङ्गारा निर्वाणाः पयसा विना।।" इति रसरत्नसमुच्चयात् । अन्यदपि योग्यतानुसारमावश्यकं सुरा- प्रदीपादि । आतङ्कनिवृत्तये रोगपरिहारार्थम् । स्पष्टमन्यत् ॥ १८-२७ ॥ भा.टी.—रसशाला में निम्नलिखित उपकरण और समय समय पर यन्त्र