भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 498, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 498

४७२ | रसतरङ्गिणी अथ सजलारनालीयणसीसकद्रवस्य प्रयोगक्रमः आरनालीयकाह्वत्थं द्रवन्तु सकलं भिषक् । सलिले सप्तगुणिते सम्मेल्य विनियोजयेत् ॥ ८२ ॥ अस्य च प्रयोगसमये भूयः सप्तगुणं जलमेलनं विधेयमिति ॥ ८२ ॥ भा.टी.-जब उक्त सजल आरनालीयका सीसकद्रव का प्रयोग करना हो तो इसे सातगुणा शुद्ध जल मिश्रित करके प्रयोग करना चाहिये ॥ ८२ ॥ अस्य आमयिकः प्रयोगः जलाभस्राविणां दाहवतां पूयवतामपि । व्रणानां धावनार्थन्तु विधानज्ञः प्रयोजयेत् ॥ ८३ ॥ मेढ्रमार्गेण चेन्नॄणां व्रणमेहस्य हेतुना । स्रावो जायेत मतिमान् बस्तिकर्मविचक्षणः ॥ ८४ ॥ आरनालीयकाह्वत्थं द्रवन्तु सजलं तदा । जलेनोद्दिष्टमानेन युञ्जीतोत्तरबस्तिना ॥ ८५ ॥ रक्तिद्वयमितं सारं त्वहिफेनसमुद्भवम् । षष्टिबिन्दुमितञ्चैव काञ्जिकाम्लीयकाहिजम् ॥ ८६ ॥ द्रवन्तु सजलञ्चाथ सार्द्धकोलद्वयं जलम् । सम्मेल्य भिषजां वर्यस्त्वक्शोफे तु विसर्पजे ॥ ८७ ॥ अभिघातोत्थशोथे च घृष्टसंपिष्टितास्थिषु । धावनार्थं प्रयुञ्जीत सर्वथैव विधानतः ॥ ८८ ॥ अभिघातोत्थितं दाहं कण्डूतिञ्च हरेद् ध्रुवम् । योनिपायुप्रदेशोत्थां कण्डूतिञ्च विनाशयेत् ॥ ८६ ॥ नागद्रवं त्वन्तराले मणिशिश्नाग्रचर्मणोः । काचबस्तिप्रयोगेण शल्यवित्त्तु प्रदापयेत् ॥ ६० ॥ फिरङ्गजं महाघोरं शोथदाहरुजान्वितम् । नाशयेदाशु योगोऽयं निरुद्धप्रकशामयम् ॥ ६१ ॥ अस्य रोगयोग्यः प्रयोगः-फिरंगोपद्रवे निरुद्धप्रकशे छेदनेन नव्या रुग्णास्य महतीं व्यापदमापादयन्ति इति तत्रापि उक्तनागद्रवस्यैव काचबस्तिद्वारा निवेशात् लघीयसी भवति सिद्धिरित्यभिनव एवाय प्रभूतफलः प्रयोगप्रकारं उद्भावित आचार्यैरिति तदेतदाह नागद्रवन्वन्तराले इति ॥ ८३-६१ ॥ भा.टी.-उक्त सजल आरनालीयका सीसकद्रव को सातगुणा जल में मिला-