रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 538, कुल 799 में से
संदर्भ में पढ़ें३३ विंशस्तरङ्गः ५१३ मृतसूतयुतं लौहं कटुकीद्रवभावितम् । मासद्वयप्रयोगेण सर्वाङ्गैकाङ्गवातहृत् ॥ १११ ॥ घृतमधुविनियुक्तं वा हरिद्रारसाढ्यं त्वशितमिह हि लौहं वापि कट्वीशिवाभ्याम् । अपहरति विशेषान्मासमात्रप्रयोगात् सुचिरजमपि पाण्डुं कामलाञ्चातिघोराम् ॥ ११२ ॥ विमलवलिसमेतं क्षौद्रगव्याज्ययुक्तं कलितरुफलपथ्याधात्रिकोद्भूतवारा । कृतसमुचितपथ्यो वर्षमात्रप्रयोगात् जनयति युवभावं ज्यायसाञ्चापि पुंसाम् ॥ ११३ ॥ लौहं गोक्षुरक्षुद्रैलाचूर्णेन परिशीलितम् । विनिहन्त्यचिरादेव मूत्रकृच्छ्रं सुदारुणम् ॥ ११४ ॥ खदिरासनसाराभ्यां सप्तधा परिभावितम् । लौहं निषेवितं हन्ति कुष्ठादीन् विविधान् गदान् ॥ ११५ ॥ गन्धमारितताम्राढ्यं लौहं तु परिशीलितम् । बलात्मगुप्ताक्वाथेन सर्वाङ्गैकाङ्गवातनुत् ॥ ११६ ॥ धात्रीरसहतं कान्तलौहं त्रिफलयान्वितम् । सेवितं वर्षमात्रं तु परमायुष्करं मतम् ॥ ११७ ॥ रोगयोग्यः प्रयोगो लोहस्य—कासानां पञ्चानां पञ्चविधान् कासान् इति भावः । पञ्चतां विनाशमित्यर्थः । शिखरीबीजं अपामार्गबीजम् । गिरिजतु शिलाजतु, अभिनवं यत्कुशकाशमूलं तत्क्वाथसंगतो वा, इतिशब्दः समुच्चये । नात्यल्पहेतुं प्रबलनिदानमित्यर्थः । दारुणं प्रभूतपीडाकरत्वात् । रसो मांसरसः, कट्वी कटुकी, शिवा हरीतकी । कलितरुफलं विभीतकम् । ज्यायसां वृद्धानाम् ॥ ६६—११७ ॥ भा.टी.—लोहभस्म की उचित मात्रा लेकर उसमें दालचीनी, इलायची- बीज, तेजपत्र तथा नागकेशरचूर्ण और खाँड मिलाकर वासास्वरस अनुपान से सेवन करने पर रक्तपित्त में आराम आता है । लोहभस्म में वासा, द्राक्षा तथा पिप्पलीचूर्ण मिलाकर सेवन करने से पाँचों प्रकार के कास में लाभ होता है । भारंगी, सोंठ, मिर्च और पिप्पलीचूर्ण के साथ लोहमस्म का सेवन करने से श्वास का वेग शीघ्र शान्त हो जाता है । कफप्रकोपजन्य रोगों में लोहभस्म को