रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 537, कुल 799 में से
संदर्भ में पढ़ें५१२ रसतङ्गिणी भा.टी.—लोहभस्म को चौथाई रत्ती में लेकर आवश्यकतानुसार दो रत्ती की मात्रा तक सेवन किया जाता है ॥६८॥ अस्य आमयिकः प्रयोगः लौहं चतुर्जातयुतं सितया च समन्वितम् । शीलितं मात्रया तूर्णं रक्तपित्तं व्यपोहति ॥ ६६ । वासाद्राक्षाकणाचूर्णयुक्तं लौहं निषेवितम् । विशेषात् खलु कासानां पञ्चानां पञ्चतां नयेत् ॥ १०० ॥ भार्गीव्योषसमायुक्तं मृतं लौहं निषेवितम् । श्वासवेगं निहन्त्याशु मेघवृन्दं यथानिलः ॥ १०१ ॥ कज्जलीपिप्पलीक्षौद्रयुतं लौहं तु शीलितम् । विनिहन्त्यचिरादेव विशेषान श्लैष्मिकामयान् ॥ १०२ ॥ शुण्ठीचूर्णयुतं लौहं वातबाधां व्यपोहति । रससिन्दूरसितया लौहं पित्तामयान हरेत ॥ १०३ ॥ फलत्रिकसमायुक्त मृतं लौह निषेवितम् । संवत्सरप्रयोगेण वलीपलितनाशनम् ॥ १०४ ॥ ताम्बूलबीटिकोपेतं लौहन्तु परिशीलितम् । रससिन्दूरसंयुक्तं वृष्यं त्र्यर्यञ्च कीर्तितम् ॥ १०५ ॥ हिंगुव्याघ्रघृतोपेतं मृतं लौहं निषेवितम् । शूलमुन्मूलयत्याशु मेघवृन्दं यथानिलः ॥ १०६ ॥ धात्रीकणाचूर्णयुतं तुल्यया सितया सह । लौहं विनाशयेद्रक्तपित्तञ्चैवाम्लपित्तकम् ॥ १०७ ॥ विडङ्गत्रिफलामुस्तशिखगन्धा ञ्रिसंयुतम् । लौहं विनाशयत्याशु भस्मकाख्यं महागदम् ॥ १०८ ॥ गिरिजातुसमुपेतं शीलितं लौहचूर्णं त्वभिनवकुशकाशक्वाथसंयोगतो वा । प्रतनुकदिवसमात्रेण नात्यल्पहेतुं व्यपनयात विशेषाद्दारुणं मूत्रकृच्छ्रम् ॥ १०६ ॥ पुनर्नवाद्यं सुमृतन्तु लौहं प्रभूतगोक्षीररसानुपीतम् । मासत्रयेणैव जराकशानां पुनर्नवत्वं प्रददाति नूनम् ॥ ११० ॥