भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 551, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 551

५२६ रसतरङ्गिणी करके आधी रत्ती से लेकर दो रत्ती तक स्वर्णमाक्षिक भस्म का प्रयोग किया जा सकता है ॥२६॥ अथ स्वर्णमाक्षिकस्य आमयिकः प्रयोगः सुमृतं माक्षिकं शालसारादिगणभावितम् । यथालाभं प्रयुक्तं तु सान्द्रमेहं विनाशयेत् ॥३०॥ शिलाजत्वभ्रजन्तुघ्नमधुभिः परिशीलितम् । शीलितं मासमेकन्तु यक्ष्माणं विनिवारयेत् ॥३१॥ यवक्षारसमायुक्तं सुमृतं स्वर्णमाक्षिकम् । नाशयत्यचिरादेव मूत्रकृच्छ्रं सुदारुणम् ॥३२॥ पुनर्नवामृताशुण्ठीदार्वाक्काथेन माक्षिकम् । सेवनादचिरादेव शोथं नाशयति ध्रुवम् ॥३३॥ काञ्चनारत्वचोत्थेन क्वाथेन परिशीलितम् । ताप्यमन्तःप्रविष्टान्तु बहिः कुर्यान्मसूरिकाम् ॥३४॥ विषाकरञ्चचूर्णेन शीलितं हेममाक्षिकम् । नाशयत्यचिरादेव नियतं विषमज्वरम् ॥३५॥ कणाकलितरूत्थेन चूर्णेन मधुनान्वितम् । शीलितं ताप्यभसितं कासबाधां व्यपोहति ॥३६॥ रसगन्धकसंयुक्तं मधुना सह माक्षिकम् । शीलितं त्वचिरादेव रक्तपित्तं व्यपोहति ॥३७॥ तुगाक्षीरीरजोमिश्रं शीलितं स्वर्णमाक्षिकम् । मासद्वितयमात्रेण ददाति विपुलं बलम् ॥३८॥ सिन्दूराभ्रसमायुक्तं सव्योषं स्वर्णमाक्षिकम् । निषेवितं निहन्त्याशु दारुणं गर्भिणीज्वरम् ॥३६॥ भागैकं रससिन्दूरं द्विभागं हेममाक्षिकम् । सम्मेल्य मधुना लीढं बलवीर्यकरं परम् ॥ ४० ॥ पिण्डखर्जूरिकोपेतं माक्षिकं गुञ्जसंमितम् । निहन्त्यापन्नसत्त्वाया रक्तस्रावमसंशयम् ॥ ४१ ॥ विषाबिल्वबलाविश्ववञ्जुलाम्बुकषाययुक् । ताप्यमापन्नसत्त्वाया ज्वरातीसारशूलनुत् ॥ ४२ ॥ अथास्य रोगयोग्यः प्रयोगः—शालसारादिगणः सुश्रुतोक्तः, तद्यथा "शालसा-