रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 671, कुल 799 में से
संदर्भ में पढ़ें६४६ रसतरङ्गिणी ( पारदर्शकता ) न मिटे और जिसके भीतर और कोई अन्यवर्ण वस्तु आदि न हो तो उसे उत्तम स्फटिकमणि समझना चाहिए ॥ २१३ ॥ स्फटिकस्य शोधनमारणे शोधनं मारणञ्चैव शिवरत्नस्य सर्वदा । राजावर्तमणेस्तुल्यं जानीयाद्रसकोविदः ॥ २१४ ॥ भा.टी.-रसतन्त्रज्ञ वैद्य को स्फटिकमणि का शोधन तथा मारण-विधान सदा राजावर्तमणि के समान ही समझना और करना चाहिए ॥ २१४ ॥ मृतस्फटिकस्य गुणाः स्फटिको मधुरो बल्यस्तुषारसमशीतलः । रक्तपित्तप्रशमनो ज्वरदाहादिनाशनः ॥ २१५ ॥ इति रत्नादिविज्ञानीयो नाम त्रयोविंशस्तरङ्गः स्फटिकगुणा निगदव्याख्याताः । अथात्र प्रसङ्गात् सर्वेषां सामान्यतो लक्षण- निर्देशः- "श्यामः स्यादिन्द्रनीलस्त्वतिमसृणयुतश्चाथ गारुत्मतः स्यात् नीलच्छा- योऽतिदीप्तोऽप्यथ मिहिरमणिः सूर्यतप्तोऽग्निमुक् स्यात् । चन्द्रांशुस्पर्शतोग्भः स्रवति शशिमणिः पुष्परागस्तु पुष्पमुख्यः श्रीवज्रमुच्चैर्धनसममिह तं संविशेल्लो- हपिण्डे ॥ वैदूर्यं यद् विडालेक्षणरुचिगदितं स्याच्च गोमेदरत्नं गोमूत्राभं विधूम- ज्वलदनलनिभं पद्मरागं वदन्ति । मुक्ताशङ्खप्रवालं सरिदधिपतिजं विश्वविख्या- तमेतद् राजावर्तन्तु पीतारुणमृदुसुरभिम्लोष्ठिभागोत्थमाहुः ॥" इति ॥ २१५ ॥ भा.टी.-स्फटिकभस्म मधुररस, शारीरिक बलवर्धक, बरफ के समान शीतल गुणवाली होती है । इसके प्रयोग से रक्तपित्त प्रकोप शान्त हो जाता है और पित्तप्रकोप जन्य ज्वर, दाह, तृषा आदि सब उपद्रव मिट जाते हैं ॥ २१५ ॥ यह रत्नादिविज्ञानीय नाम तेइसवाँ तरङ्ग समाप्त हुआ ।
अथ विषोपविषादिविज्ञानीयश्चतुर्विंशस्तरङ्गः विषपदस्य निर्वचनम् दृष्ट्वै तद् यद्विषीदन्ति जनास्तस्माद्विषं मतम् । नरं वा विषणीत्येतन्मृत्युपाशैस्ततो विषम् ॥ १ ॥ विषोपविषाणाम्भूयसा रसयोगेषूपयोगात् परिशेषात् विषोपविषाणामपि परिच- यावकाशः । रससंस्कारोपयोगाच्च । अथ विषं कस्मात् इति चेत् ? तत्राह-दृष्ट्वै- तदिति । नरमप्युपलक्षणं इतरप्राणिनामपि । विषांपयोगाद्विषाददर्शनात् । तथा