रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 680, कुल 799 में से
संदर्भ में पढ़ेंबाह्यमाभ्यन्तरं रक्तस्रावं ह्रासयति द्रुतम् ॥ ४६ ॥ सदाहं सज्वरं तीव्रशिरोवेदनयान्वितम् । सदाहं भ्रूयुगं हन्ति प्रतिश्यायं नवोत्थितम् ॥ ४७ ॥ सकफां बहुरक्तां वा स्वल्परक्तामुपक्रमे । प्रवृद्धमलवेगाढ्यां विनिहन्ति प्रवाहिकाम् ॥ ४८ ॥ ऊर्ध्वजत्रुगता या तु नाडिका पञ्चमो मता । शूलं तदुत्थितं शीघ्रं विनिहन्ति विशेषतः ॥ ४९ ॥ बहुवेगं वाल्पवेगं प्रगाढरक्तलोहितम् । ज्वरान्वितं तूर्ध्वगतं रक्तपित्तं व्यपोहति ॥ ५० ॥ तावदेव प्रयोक्तव्यं विषं होरात्रयोत्तरम् । गात्रतापं भवेन्नेह यावत् खलु शतांशिकम् ॥ ५१ ॥ अन्तर्दाहसमायुक्तं द्रुतं प्रबलनाडिकम् । पिपासया परिगतं द्रुतहृद्गतिसंयुतम् ॥ ५२ ॥ अजीर्णाध्मानसंयुक्तं तथैव स्वेदवर्जितम् । अतिमात्राभिसंवृद्धगात्रतापांशसंगतम् ॥ ५३ ॥ कासकम्पशिरःशूलैः पर्याकुलमनारतम् । अस्थैर्य्यारतिवैचित्यभयोद्वेगादिसंयुतम् ॥ ५४ ॥ वातवेदनयाक्रान्तं त्वारक्तमुखमण्डलम् । शुष्कोष्णचर्मसंस्पर्शं प्रगाढारक्तमूत्रकम् ॥ ५५ ॥ शीतपूर्वं तु दाहान्तं ज्वरं विविधहेतुजम् । विषं विधिप्रयुक्तं तु नाशयत्याशु निश्चितम् ॥ ५६ ॥ त्रिविधोत्थानसंभूतान् विविधस्थानसंस्थितान् । निहन्ति तरुणानाशु शोथांस्तु विविधाकृतीन् ॥ ५७ ॥ विविधस्थानसंस्थानां त्वसह्यत्वप्रकाशिकाम् । स्पर्शासहां गात्रभवां वेदनाञ्च निहन्त्यलम् ॥ ५८ ॥ तत्तद्रागघ्नभैषज्ययुतं तु विमलं विषम् । योगवाहितया हन्ति सर्वानैव महामयान् ॥ ५९ ॥ नानारसप्रयोगेण शान्ति यान्ति न ये गदाः । विषप्रयोगेण तु ते शाम्यन्ति हि न संशयः ॥ ६० ॥ अथास्य भूयः गुणवर्णनं विस्तरेण यथानुभवमाह-यस्माद्विषमविधिना युक्तं