रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)
Rasatarangini of Sadananda Sharma with Prasadani Commentary
सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा
पृष्ठ 679, कुल 799 में से
संदर्भ में पढ़ें६५४ रसतरङ्गिणी वत्सनाभस्य विशिष्टा गुणाः विषं प्राणप्रदमलं विधिना परिशीलितम् । तदेवाविधिना युक्तं मतं प्राणहरं परम् ॥ ३२ ॥ तस्माद्विषविधानज्ञो रोगाणां लक्षणानि तु । विमृश्य सूक्ष्मया बुद्ध्या प्रयुञ्जीत प्रयत्नतः ॥ ३३ ॥ विषं विशेषतो वातवेदनाहरमुत्तमम् । मूत्रलं स्वेदजननं शूलनिर्मूलनं परम् ॥ ३४ ॥ प्रवृद्धतापशमनं तथा शोथानिषूदनम् । तत्तद्धेतुप्रवृद्धाया हृद्गतेश्च नियामकम् ॥ ३५ ॥ स्वेदसञ्जनकान्येषाम् भेषजानामपेक्षया । परं तु तापशमनं न चार्त्तिस्वेदकृत्तथा ॥ ३६ ॥ प्रवृद्धरक्तसञ्चारसुसंयमनसंविधौ । अमोघाख्यमिदं ख्यातं सर्वोत्कृष्टं महौषधम् ॥ ३७ ॥ रसतंत्राच्चिकित्सायां बाहुल्येन निरूपिते । विषप्रयोगे भूम्ना तु प्रवृत्ते सति भारते ॥ ३८ ॥ पूर्वाचार्यविनिर्दिष्टं रक्तनिर्हरणादिकम् । इदानीमत एवेह तिरोभूतं तु निर्भरम् ॥ ३९ ॥ विशोधितं खलु विषं मात्रया परिशीलितम् । हृदयस्य गतिं नैवावसादयति कर्हिचित् ॥ ४० ॥ मस्तिष्कदेशे संवृद्धां रक्तसञ्चरणक्रियाम् । नाशयत्याशु मस्तिष्के जातं वा रक्तसञ्चयम् ॥ ४१ ॥ फुप्फुसच्छदशोथघ्नस्तथा फुप्फुसशोथनुत् । तथा शोथसमुद्भूतविविधज्वरवेगजित् ॥ ४२ ॥ शोथं विनाशयत्याशु हृदयावरणोत्थितम् । तथान्त्रावरणोद्भूतं ज्वरञ्च विनिहन्त्यलम् ॥ ४३ ॥ फुप्फुसच्छदशोथादिरोगाणां प्रक्रमे विषम् । प्रयुक्तं निरुणद्ध्येतत् केषांचिद्विषजां मतम् ॥ ४४ ॥ गलशोथं तुण्डिकेरीं तथैव गलशुण्डिकाम् । अन्यांशच तरुणान् कण्ठरोगानाशु निहन्त्यलम् ॥ ४५ ॥ तत्तन्स्थानसमुद्भूतं त्वभिघातादिहेतुजम् ।