भारतकोश
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

पृष्ठ 746, कुल 799 में से

संदर्भ में पढ़ें
पृष्ठ 746

स्वप्नमेहहरा चैव शुक्रस्तम्भनकारिणी ॥४००॥ निद्राप्रदायिनी कामं कामोद्दीपनकारिणी । प्रलापनाशिका चैव धनुःस्तम्भहरा तथा ॥४०१॥ आन्त्रशूलहरा चैव वृक्कशूलप्रणाशिनी । पित्तशोषजशूलघ्नी त्वामाशयबलप्रदा ॥४०२॥ अजीर्णजातिसारघ्नी तथाजीर्णनिवारिणी । उन्मादनाशिनी चैव वृक्कशोथंव्यथाहरा ॥४०३॥ मूत्रला रक्तसंयुक्तमूत्रस्रावनिवारिका । विचित्रानन्दजननस्वप्नसन्तानकारिका ॥४०४॥ अर्शोव्यथाहरा चैव किञ्चिज्ज्वरनिवारिका । व्रणमेहसमुद्भूतशिश्नोत्थानव्यथाहरा ॥४०५॥ नाडीदौर्बल्यसम्भूतं तथाक्षेपसमुत्थितम् । रजःशूलं निहन्त्याशु भास्करस्तिमिरं यथा ॥४०६॥ आमाशयोत्थशूलघ्नी यक्ष्मकासहरा परम् । बस्त्याक्षेपहरा चैव साक्षेपतमकापहा ॥४०७॥ दारुणाक्षेपसंयुक्तमतिकष्टप्रदायिनम् । परं सङ्क्रामकं कासं विनिहन्ति विशेषतः ॥४०८॥ रजोनिवृत्तिकाconsumerलोत्थां प्रौढावस्थाक्षये तथा । शीर्षव्यथां तु नारीणां विनिहन्ति सुदारुणाम् ॥४०६॥ गर्भस्रावसमुद्भूतां मासिकस्रावकालजाम् । रक्तप्रदरजां वापि वृद्धां रक्तस्रुतिं जयेत् ॥४१०॥ आलपन् विस्मरेद् यन्त्रं स्वकीयं पूर्वभाषितम् । दौर्बल्यं मानसोद्भूतं विनाशयति सत्वरम् ॥४११॥ अन्नजातं तु निखिलं भुक्तं यत्र न जीर्यति । अजीर्णं नाशयत्याशु सारुचिं क्षुद्विवर्जितम् ॥४१२॥ अर्द्धावभेदकोपेताकाचरोगनिवारिका । सङ्कोचनी तथा श्रोत्रदृष्टिशक्तिविवर्द्धिनी ॥४१३॥ भङ्गायाः गुणाः—क्षुद्दीपनो क्षुधावृद्धिकरी, पित्तशोषजशूललक्षणं नारि- केललवणस्य गुणव्याख्याने द्रष्टव्यम् । अजीर्णजातिसारघ्नीति अजीर्णजातमती- सारं हन्ति । विचित्रानन्दजननेत्यादि—अस्याः प्रयोगात् निद्राविष्टः पुरुषः