रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 210, कुल 584 में से
संदर्भ में पढ़ें( १८४ ) रसेन्द्रसारसंग्रह । ततः कज्जलिकां कृत्वा व्योषचूर्णं प्रदापयेत् । केशराजस्य भृङ्गस्य निर्गुण्ड्याश्चित्रकस्य च॥१७॥ ग्रीष्मसुन्दरकस्याथ जयन्त्याः स्वरसं तथा । मण्डूकपर्ण्याः स्वरसं तथा शक्राशनस्य च ॥१८॥ श्वेतापराजितायाश्च स्वरसं पर्णसम्भवम् । दापयेद्रसतुल्यञ्च विधिज्ञः कुशलो भिषक् ॥ १९॥ रसतुल्यं प्रदातव्यं चूर्णं मरिचसम्भवम् । देयं रसार्द्धभागेन चूर्णं टंकणसम्भवम् ॥ २० ॥ शुभे शिलामये पात्रे घर्षणीयं प्रयत्नतः । शुष्कमातपसंयोगाद्वटिकां कारयेद्भिषक् ॥ २१ ॥ कलायपरिमाणन्तु खादेत्तां तु प्रयत्नतः । दृष्ट्वा वयश्चाग्निबलं यथाव्याध्यनुपानतः ॥ २२ ॥ हन्ति कासं क्षयं श्वासं वातश्लेष्मभवं रुजम् । परं वाजीकरः श्रेष्ठो बलवर्णाग्निवर्द्धकः ॥ २३ ॥ ज्वरे चैवातिसारे च सिद्ध एष प्रयोगराट् । नातः परतरः श्रेष्ठो विद्यतेऽभ्ररसायनात् ॥ २४ ॥ भोजने शयने पाने नास्त्यत्र नियमः क्वचित् । दधि चावश्यकं भक्ष्यं प्राह नागार्जुनो मुनिः॥२५॥ शुद्ध पारा १ तोला, गंधक १ तोला और अभ्रक भस्म १ तोला इन सब औषधियोंको एकत्र करके कजली बनावे । फिर इसमें एक तोला परिमाण त्रिकुटेका चूर्ण डालकर पश्चात् कुकुरभांगरा, भांगरा, सम्हालू, चित्रककी जड़, ग्रीष्मसुन्दर, जयंती, ब्राह्मी, भांग, सफेद कोयली और पान इन प्रत्येकका स्वरस एक एक तोला लेकर