रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 332, कुल 584 में से
संदर्भ में पढ़ें( ३०६ ) रसेन्द्रसारसंग्रह । लवङ्गम् । मांसीतालीशचोचे गजकुसुमगदं धातंकी चेति तुल्यं, पथ्या धात्री विभीतं त्रिकटुरथ पृथक् चार्द्धशाणं द्विशाणम् ॥२७॥ एला जातीफलाख्यं क्षितितलविधिना शुद्धगन्धाश्मकोलं, कोलार्द्धं पारदस्य प्रतिपदविहितं सर्वमेकत्र मिश्रम् । पानी- येनैव कार्याः परिणतचणकस्विन्नतुल्याश्च वट्यः प्रातः खाद्याश्चतस्रस्तदनु च कतिचिच्छृङ्गवेर सपर्णम् ॥ २८ ॥ पानीयं पीतमन्ते ध्रुवमपहरति क्षिप्रमेतान्विकारान्, कोष्ठे दुष्टाग्निजातान् ज्वरं- मुदररुजो राजयक्ष्म क्षयं च । कासं श्वासं सशोथं नयनपरिभवं मेहमेदोविकारान्, छर्दिं शूलाम्लपित्तं तृषमपि महतीं गुल्मजालं विशालम् ॥ २९ ॥ पाण्डुत्वं रक्तपित्तं गरलभवगदान्पीनसं प्लीह- रोगान्, हन्यादामाशयोत्थान्कफपवनकृतान्पित्त- रोगानशेषान् । बल्यो वृष्यश्च योगस्तरुणतरकरः सर्वरोगे प्रशस्तः, पथ्यं मांसैश्च यूषैर्घृतपरिलुलितै- र्गव्यदुग्धैश्च भूयः ॥ ३० ॥ भोज्यं योज्यं यथेष्टं ललितललनया दीयमानं मुदा यच्छृङ्गाराभ्रेणकामी युवतिजनशता भोगयोगादतुष्टः । वर्ज्यं शाकाम्ल- मादौ दिनकतिपयचित्स्वेच्छया भोज्यमन्यद्दीर्घायुः काममूर्त्तिर्गतवलिपलितोमानवोऽस्य प्रसादात्॥३१॥ कृष्णाभ्रकभस्म दो पल, कपूर, जावित्री, सुगंधवाला, गज- पीपल, तेजपात, लौंग, बालछड, तालीशपत्र, दालचीनी, नागकेशर,