रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)
Rasendra Sara Sangraha of Gopalakrishna with Commentary
गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा
पृष्ठ 334, कुल 584 में से
संदर्भ में पढ़ें( ३०८ ) रसेन्द्रसारसंग्रह । शृंगाराभ्रकमें जो औषधि कही हैं उनमें यदि पारेकी बराबर सोनाभस्म अथवा लोहाभस्म मिला लिया जाय तो उसको सार्वभौम रस कहते हैं; यह सब रोगनाशक है ॥ ३२ ॥ तरुणानन्द रस । कर्षद्वयं रसेन्द्रस्य शुद्धस्य गन्धकस्य च । कज्जलीकृत्य यत्नेन शिलातलशुभे दृढे ॥ ३३ ॥ बिल्वाग्निमन्थः श्योनाकः काश्मरी पाटला बला । मुस्तं पुनर्नवा धात्री बृहती वृषपत्रकम् ॥ ३४ ॥ विदारी शतमूली च कर्षैरैषां पृथग्रसैः । मर्दयित्वा पुनर्वासास्वरसैर्दशतोलकैः ॥ ३५ ॥ मर्दयेत्तत्र शुद्धाभ्रं रसस्य द्विगुणं क्षिपेत् । रसस्यार्द्धञ्च कर्पूरं तत्रैव दापयेद्भिषक् ॥ ३६ ॥ जातीकोषफले मांसी तालीशैला लवंगकम् । चूर्णं कृत्वा प्रयत्नेन माषमात्रं क्षिपेत्पृथक् ॥३७॥ विदारीस्वरसेनैव वटिकां कारयेद्भिषक् । राजयक्ष्माणमत्युग्रं क्षयञ्चोग्रमुरःक्षतम् ॥ ३८ ॥ कासं पञ्चविधं श्वासं स्वराघातमरोचकम् । कामलां पांडुरोगञ्च प्लीहानं सहलीमकम् ॥३९॥ जीर्णज्वरं तृषां गुल्मं ग्रहणीमामसंभवाम् । अतिसारञ्च शोथञ्च कुष्ठानि च भगन्दरम् ॥४०॥ नाशयेदेष विख्यातस्तरुणानन्दसंज्ञितः । रसायनवरो वृष्यश्चक्षुष्यः पुष्टिवर्द्धनः ॥ ४१ ॥