भारतकोश
रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)

रसेन्द्रसारसंग्रह (गोपालकृष्ण - पं. रामप्रसाद वैद्य सविस्तार सान्वय हिन्दी टीका सहित)

Rasendra Sara Sangraha of Gopalakrishna with Commentary

गोपालकृष्ण भट्ट (टीकाकार: पं. रामप्रसाद वैद्य) द्वारा

DevanagariHindipublished584 पृष्ठ

पृष्ठ 531, कुल 584 में से

संदर्भ में पढ़ें
पृष्ठ 531

भाषाटीकासहित । ( ५०५ ) अथ नेत्ररोगचिकित्सा । नेत्राशनि रस । अभ्रं ताम्रं तथा लौहं माक्षिकञ्च रसाञ्जनम् । पातनायन्त्रसंशुद्धं गन्धकं नवनीतकम् ॥ १ ॥ पलप्रमाणं प्रत्येकं गृह्णीयाच्च विधानवित् । सर्वमेकीकृतं चूर्णं वैद्यैः कुशलकर्मभिः ॥ २ ॥ ततस्तु भावना कार्या त्रिफलाभृङ्गराजकैः । ततः प्रक्षेपचूर्णञ्च पिप्पलीमूलयष्टिका ॥ ३ ॥ एला पुनर्नवा दारु पाठा भृङ्गः शटी वचा । नीलोत्पलं चन्दनञ्च श्लक्ष्णचूर्णञ्च दापयेत् ॥ ४ ॥ माषमेकं प्रदातव्यं घृतश्रीमधुमर्दितम् । मर्दनं लौहदण्डेन पात्रे लौहमये दृढे ॥ ५ ॥ अनुपानं प्रयोक्तव्यमुष्णेन वारिणा तथा । यावतो नेत्ररोगांश्च पानादेव विनाशयेत् ॥ ६ ॥ सरक्ते रक्तपित्ते च रक्ते चक्षुःस्रुतेऽपि च । नक्तान्धे तिमिरे काचे नीलिकापटलार्बुदे ॥ ७ ॥ अभिष्यन्देऽधिमन्थे च पिष्टे चैव चिरन्तने । नेत्ररोगेषु सर्वेषु वातपित्तकफेषु च ॥ सर्वनेत्रामयं हन्याद् वृक्षमिन्द्राशनिर्यथा ॥ ८ ॥ अभ्रकभस्म, तांवाभस्म, लोहाभस्म, सोनामाखीभस्म, रसौत और पातनायंत्रमें शोधित आमलासारगंधक यह प्रत्येक औषधि एक एक पल लेवें, इन सब औषधियोंको एकत्र पीसकर त्रिफलेके रस और भांगरेके रसमें अलग अलग सात सात भावना देकर पीपलामूल, मुलैठी, ।