भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 165, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 165

120 रत्नावली

सुसङ्गता—(सागरिकाया हृदये हस्तं दत्वा) सहि ! समस्सस समस्सस । जाव इमाए दिग्घिआए णलिणीपत्ताइँ मुणालिआइं अ गेण्हिअ लहुं आअच्छामि । (निष्क्रम्य पुनः प्रविश्य च नाटयेन नलिनी- पत्रैः शयनीयं मृणालवलयानि च रचयित्वा परिशिष्टानि नलिनीपत्राणि सागरिकाया हृदये निक्षिपति ) (क) सागरिका—सहि ! अवणेहि इमाइं णलिणीपत्ताइँ मुणालि- आइं अ । अलं इमिणा । कीस अकारणे अत्ताणं आयासेसि ? (ख) दुल्हहजणअणुराओ लज्जा गरुई परव्वसो अप्पा । पियसहि ! बिसमं पेम्मं मरणं सरणं तु वरमेक्कं १ ॥१॥ (ग) ( इति मूर्च्छति ) (क) सखि, समाश्वसिहि समाश्वसिहि । यावद अस्याः दीर्घिकायाः नलिनीपत्राणि मृणालिकानि च गृहीत्वा लघु आगच्छामि । (ख) सखि, अपनय इमानि नलिनीपत्राणि मृणालिकानि च । अलमेतेन । कथम् अकारणे आत्मानं आयासयसि ? (ग) दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा । प्रियसखि विषमं प्रेम मरणं शरणं तु वरमेकम् ॥ ज्ञातास्मि राज्ञः कृते मदनपीडितेदमिति सुसङ्गतया ज्ञातास्मीत्यर्थः । गृहीताक्षरा भाषणस्य अक्षराणि गृहीत्वा इत्यर्थः । मन्त्रयिष्यते कथयिष्यति । आयासयसि खेदं प्रापयसि । दुर्लभेति । दुर्लभः यः जनः उदयन इत्यर्थः । तस्मिन् अनुरागः आसक्तिः । लज्जा गुर्वी महती । एतस्मात् साक्षाद् भाषणं न भविष्यति, लेखप्रेषणादिना यदेव सम्भवति तदेव भविष्यतीत्यर्थः । आत्मा परस्य वासवदत्तायाः वशः पराधीनः यौगन्धरायणेन वासवदत्ता- हस्ते समर्पितत्वात् । अतः पराधीनः जनः स्वेच्छया किमपि कर्तुं न शक्नोति इति भावः । प्रेम अनुरागः विषमम् विपरीतम् । अतएवास्यामवस्थायां किं करणीयमिति आह । मरणम् एकं तु वरं श्रेष्ठं शरणम् आश्रयः । मरणेनैव सर्व्वथा मे शुभं भविष्य- 1 णवरमेक्कं ।