भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 168, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 168

द्वितीयोऽङ्कः 123

अपिच— नष्टं वर्षधरै¹र्मनुष्यगणनाभावादपास्य त्रपा- मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः । पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरालेक्षणाशङ्किनः ॥३॥

सुसङ्गता—( आकर्ण्याग्रतोऽवलोक्य ससम्भ्रममुत्थाय सागरिकां हस्ते गृहीत्वा ) सहि ! उट्ठेहि उट्ठेहि । एसो क्खु दुट्ठबाणरो इदो ज्जेब्ब आगच्छदि । (क)

सागरिका—किं दाणिं करेह्म ? (ख) सुसङ्गता—एहि । ²इमस्सिं तमालविडबांधकारे पवि- सिअ एदं अदिवाहेह्म । (ग)

(क) सखि ! उत्तिष्ठ उत्तिष्ठ । एष खलु दुष्टवानरः इत एव आगच्छति । (ख) किम् इदानीं कुर्वः ? (ग) एहि । अस्मिन् तमालविटपान्धकारे प्रविश्य एतमतिवाहयावः ।

कण्ठे इति । कृतावशेषं कृतः छिन्नः अवशेषः यस्य तत् । कनकमयम् सुवर्णघटितं शृङ्खलादाम शृङ्खला चासौ दाम चेति कण्ठे अधः कर्षन् । हेलया लीलया चलाः चञ्चलाः चरणाः तेषु रणन्तां ध्वनतां किङ्किणीनां चक्रवालं मण्डलं यस्य सः । अङ्गनानाम् दत्तातङ्कः दत्तः आतङ्कः येन सः । सम्भ्रमात् भयात् अश्वपालैः अनुसृतसरणिः अनुसृतः सरणिः पन्थाः यस्य सः । अयं प्लवङ्गः वानरः नृपतेः मन्दुरायाः प्रकृष्टः पलायितः मन्दिरं प्रविशति । स्रग्धरा वृत्तम् ॥२॥ नष्टमिति । वर्षवरैः षण्ढैः मनुष्यगणनाभावात् स्त्रीत्वपुंस्त्वाद्युभयलक्षणविरहितत्वात् तेषां मनुष्यमध्ये गणना न भवति । तैः विद्रुतं पलायितम् त्रपां लज्जाम् अपास्य परित्यज्य । वामनः खर्व्वः त्रासात् वानरभयात् कञ्चुकिकञ्चुकस्य कञ्चकिनः दीर्घचोलकस्य अन्तः

1 वर्षवरै । 2 ता अलक्खिदं ।