रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 169, कुल 520 में से
संदर्भ में पढ़ें124 रत्नावली प्रविशति ह्रस्वत्वात् । पर्य्यन्ताश्रयिभिः पर्यन्तेषु प्रान्तभूमिषु आश्रयणमणं कुर्व्वद्भिः भया- दित्यर्थः । किरातैः किरं पर्य्यन्तभूमिम् अतन्ति निरन्तरं गच्छन्ति इति किर — अत् + कर्त्तरि अण् इति किराताः तैः । नाम्नः सदृशं याथार्थ्यं कृतं प्रान्तभूमिपर्य्यटनशीलास्ते साम्प्रतं प्रान्तभूमिमेवामाश्रयन्ते इति तैः स्वनामव्युत्पत्तेः याथार्थ्यं सम्पादितम् । आत्मावलोकनशङ्किनः यथा ते वानरेण दृष्टाः न स्युरिति । कुब्जाः नीचतयैव अधः स्थित्या एव शनकैः मन्दं यान्ति । शार्दूलविक्रीड़ितं वृत्तम् । स्वभावोक्तिरत्रालङ्कारः ॥ ३ ॥ एतम् वानरम् अतिवाह्यावः यापयावः । Prose. कण्ठे कृत्तावशिष्टं कनकमयं शृङ्खलादाम अधः कर्षन् हेलाचलचरण- रणत्किङ्किणीचक्रवालः अश्वपालैः सम्भ्रमात् अनुसृतसरणिः अङ्गनानां दत्तातङ्कः अयं प्लवङ्गः नृपतेः मन्दुरायाः प्रभ्रष्टः (सन्) द्वाराणि क्रान्त्वा मन्दिरं प्रविशति ॥२॥ मनुष्यगणनाभावात् त्रपाम् अपास्य वर्ष