भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 194, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 194

द्वितीयोऽङ्कः 149 राजा—वयस्य ! निरूप्यताम् । वसन्तकः—जं भवं आणवेदि । (परिक्रम्यावलोक्य च) एसो वि चित्तफलओ, जाव णं गेह्णामि । (गृहीत्वा निरूप्य च हर्षं नाटयति) (क) राजा—(सकौतुकम्) वयस्य ! किमेतत् ? वसन्तकः—भो वयस्स ! दिट्ठिआ वड्ढसि ! एदं जं मए भणिदं । तुमं ज्जेव्व एत्थ आलिहिदो । अण्णहा को अत्तो कुसुमचावव्ववदेसेण णिह्णोबअदित्ति । (ख) राजा—(सहर्षं हस्तौ प्रसार्य) सखे ! दर्शय दर्शय । वसन्तकः—ण दे दंसइस्सं । सावि कण्णआ एत्थ एव्व आलिहिदा । ता किं पारिदोसिएण विणा ईदिसं कण्णारअणं दंसीअदि ? (ग) राजा—(कटक मपर्यस्य च बलाद् गृहीत्वा पश्यति । विलोक्य सविस्मयम् ) वयस्य ! पश्य पश्य— लोलावधूतपद्मा कथयन्ती पक्षपातमधिकं नः । मानसमुपैति केयं चित्रगता राजहंसीव ॥८॥ अपिच— विधायापूर्वपूर्णेन्दुमस्या मुखमभूद् ध्रुवम् । धाता निजासनाम्भोजविनिमीलनदुःखितः ॥१०॥ (क) यद् भवान् आज्ञापयति । एषः अपि चित्रफलकः, यावत् ननु (एनं) गृह्णामि । (ग) भो वयस्य, दिष्ट्या वर्धसे ! एतत् तत् यन्मया भणितम् । त्वमेव अत्र आलिखितः । अन्यथा कीदृशः कुसुमचापव्यपदेशेन निह्नुयते इति ? (घ) न ते दर्शयिष्यामि । सापि कन्यका अत्र एव आलिखिता । तत् किं पारितोषिकेन विना ईदृशं कन्यारत्नं दर्श्यते ?