भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 199, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 199

154 रत्नावली वसन्तकः—( राजानं चालयित्वा ) णं भणामि—कीस एसा ओणदमुही आलिहिदा ? (क) राजा—वयस्य ! सारिकयैव सकलमावेदितम् । सुसङ्गता—( विहस्य ) सहि ! दंसिदं सारिआए अत्तणो मेहा- बित्तणं । (ख) वसन्तकः—अवि सुहायदि दे लोअणं ण वेत्ति ? (ग) सागरिका—( स्वगतम् ) किं एसो भणिस्सदित्ति । सच्चं ज्जेव्व मरणजीविदाणं अन्तरे वट्टामि । (घ) राजा—सुखयतीति किमुच्यते !— कृच्छ्रादूरुयुगं व्यतीत्य सुचिरं भ्रान्त्वा नितम्बस्थले मध्ये स्यास्त्रिवलीतरङ्गविषमे निष्पन्दतामागता । मद्दृष्टिस्तृषितेव सम्प्रति शनैरारुह्य तुङ्गौ स्तनौ साकाङ्क्षं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥११॥ सागरिका—( श्रुत्वा—स्वगतम्) हिअअ, पसीद पसीद ! समस्सस समस्सस ! मणोरहोवि दे दाणिं एत्तिअं भूमिं गदो । (ङ) (क) ननु भणामि । कस्यादिय मवनतमुखी चालिखिता ? (ख) सखि, दर्शितं सारिकया चात्मनो मेधावित्वम् । (ग) अपि सुखयति ते लोचनं न वा इति ? (घ) किमेष भणिष्यतीति । सत्यमेव मरणजीवितयोः अन्तरे वर्ते । (ङ) हृदय, प्रसीद प्रसीद ! समाश्वसिहि समाश्वसिहि ! मनोरथोऽपि ते इदानीं एतावतीं भूमिं गतः । 1 ससाध्वसम् ।