रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 203, कुल 520 में से
संदर्भ में पढ़ें158 रत्नावलो of self-confidence in you—the covetable union with whom is thus highly thought of by even such ( beautiful ) girls —that you are not noticing your own self drawn here in this picture by her ? राजा ( निर्वर्ण्य ) अनया लिखितोऽहमिति यत् सत्यमात्मन्येव बहुमानः, तत् कथं न पश्यामि ? पश्य— भाति पतितो लिखन्त्यास्तस्या बाष्पाम्बुशीकरकणौघः । खेदोद्गम इव करतलसंस्पर्शादेष¹ मे वपुषि ॥ १२ ॥ सुसङ्गता—सहि ! तुमं' ज्जेब्ब एका सिलाहणीया जाए भट्टावि एब्बं मंतीअदि² । (क) विदूषकः ( पार्श्वतोऽवलोक्य ) भो वयस्स ! एदं खु ताए सरस- कमलिणीदलमुणालविरइदं मदणावस्थासूअअं सअणीअअं लक्खीअदि । (ख) राजा—निपुणमुपलक्षितम् । तथाहि— परिम्लानं पीनस्तनजघनसाङ्गादुभयत- स्तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सन्तापं वदति नलिनीपत्रशयनम् ॥ १३ ॥ अपिच--- स्थितमुरसि विशालं पद्मिनीपत्रमेतत् कथयति न तथाऽन्तर्मन्मथोत्थामवस्थाम् । (क) सखि, त्वमेव एका श्लाघनीया यया भर्त्तापि एवं मन्त्र्यते । (ख) भो वयस्य, एतत् खलु तस्याः सरसकमलिनीदलसृणालविरचितं मदनावस्था- सूचकं शयनीयं लक्ष्यते । 1 देव। 2 तुमं' जेब्ब धणा सिलाहणीया य जाए भट्टा एब्बं संतीसीअदि ।