रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 204, कुल 520 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः 159 अतिशय^1परितापम्नापिताङ्गा^2 यथास्याः स्तनयुगपरिणाहं मण्डलाभ्यां ब्रवीति ॥ १४ ॥ विदूषकः—( नाट्येन मृणालिकां गृहीत्वा ) भो वयस्स ! अअं क्खु उबलद्धो^3 अवरो ताए ज्जेव्व पीणत्थणजोग्गो^4 किलिसंतकोमल- मुणालहारो, ता पेक्खदु भवं । (क) राजा—( गृहीत्वोरसि विन्यस्य सोपालम्भम् ) अयि जडप्रकृते ! परिस्रुतस्तत्कुचकुम्भमध्यात् किं शोषमायासि मृणालहार ? न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः किमु^5 स्यात् ? ॥ १५ ॥ सुसङ्गता—( आत्मगतम् ) हद्धी हद्धी ! गुरुआणुराअक्खित्त- हिअओ भट्ठा असंबद्धं वि मंतिदुं पउत्तो ! ता अदो अवरं उण ण जुत्तं छबेक्किदुं^6 दाव । ( प्रकाशम् ) सहि ! जस्स किदे तुमं आगदा, सो अअं दे पुरदो चिट्ठदि । (ख) (क) भो वयस्य, अयं खलु उपलब्धः अपरः तस्या एव पीनस्तनयोग्यः क्लिश्यत्- कोमलमृणालहारः, तत् प्रेक्षतां भवान् । (ख) हा धिक् ! हा धिक् ! गुरुकानुरागक्षिप्तहृदयः भर्त्ता असम्बद्धमपि मन्त्रयितुं प्रवृत्तः । तत् अतोऽपरं (अतः परं) पुनर्न युक्तमुपेक्षितुं तावत् । सखि, यस्य कृते त्वमागता सोऽयं ते पुरतः तिष्ठति । बहुमानः आदरः । भातीति । बाष्पाणां नेत्रजलानां शीकरकणाः जलकणाः 1 अतिगुरु । 2 म्नापिताभ्यां । 3 अअं चवरी ताए ; उभअदो । 4 इदं ; वल्लभा । 5 कथम् । 6 अबेक्खिदुं, भोदु एव्वं दाव ।