रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 214, कुल 520 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः 169 तक्केमि पधाबइणो बि एदं णिम्माइअ विम्हओ समुप्पण्णोत्ति । (क) राजा—वयस्य ! ममाप्येवं मनसि वर्त्तते— दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विष- श्चतुर्भिरपि साधु साध्विति मुखैः समं व्याहृतम् । शिरांसि चलितानि विस्मयवशाद् ध्रुवं वेधसो¹ विधाय ललनां जगत्त्रयललामभूतामिमाम् ॥ १६ ॥ (क) ही ही भोः ! आश्चर्यम् आश्चर्यम् ! ईदृशं कन्यारत्नं मनुष्यलोके न दृश्यते । तत् तर्कयामि प्रजापतेरपि एतां निर्म्माय विस्मयः समुत्पन्न इति । क्रीडितम् एव विनोदनाथमित्यर्थः । जगतां स्वर्गमर्त्यपातालानां त्रयं तत्र ललामभूताम् भूषणभूताम् इमां कन्यां सागरिकारूपां विधाय निर्म्माय वेधसः ब्रह्मणः । वेधसा इति साधीयान् पाठः, अन्यथा विधाय इत्यनेन सहानुपपत्तिः स्यात् । विस्मयवशात् अस्या लावण्यातिशयदर्शनेनेत्यर्थः । जितनिजाब्जपत्रत्विषः निजम् अब्जं पद्मम् उपवेशनार्थमित्यर्थः । तस्य पत्राणि दलानि तेषां त्विट् । जिता निजाब्जपत्रस्य त्विट् याभिः ताः दृशः इत्यर्थः । पृथुतरीकृता विपुलीकृताः अलोकसामान्यरूपदर्शनेनेत्यर्थः । चतुर्भिः मुखैः अपि साधु साधु इति प्रशंसावचनं समं युगपत् व्याहृतम् उक्तम् । शिरांसि चलितानि कम्पितानि चलितानीति यावत् । चल् धातोः अन्तर्भावितणिजन्तत्वात् चलितानि इति । ध्रुवमिति उत्प्रेक्षायाम् । पृथ्वीवृत्तम्—"जसौ जसयला वसुग्रहयतिय पृथ्वी गुरुः” ॥ १६ ॥ Prose. जगत्त्रयललामभूताम् इमां विधाय वेधसः ( वेधसा वा ) विस्मयवशाद् ध्रुवं शिरांसि चलितानि, चतुर्भर्मुखैः साधु साध्विति समं व्याहृतम् जितनिजाब्जपत्रत्विषः दृशः पृथुतरीकृता ॥ १६ ॥ Beng. Trans. সুসঙ্গতা—( স্বগত ) মহারাজ প্রসন্ন হইয়াছেন । ( প্রকাশ্যে ) ভয় করিবেন না । মহারাজের অনুগ্রহে ( এই টুকু ) তামাসা করিলাম মাত্র । দেবীর অনুগ্রহে অনেক আমোদ করিয়াছি । এখন আমার প্রিয়সখী সাগরিকা—‘কেন তুমি আমাকে এই
- वेधसा ।