भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 217, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 217

172 रत्नावली त्यक्त्वा त्वरां व्रज पदैः¹ स्खलितैरयं ते खेदं गमिष्यति²गुरुर्नितरां नितम्बः ॥ १७ ॥ सुसङ्गता—भट्टा ! अदिकोवणा क्खु एसा । ता अग्गहत्थे³ गेण्हिअ पसादेहि णं । (क) राजा—( सानन्दम् ) यथाह भवती । ( सागरिकां हस्ते गृहीत्वा स्पर्शसुखं नाटयति ) विदूषकः—भो ! एसा क्खु तुए अपुव्वा सिरी समासादिदा ! ( ख ) राजा—वयस्य ! सत्यम् ।— श्रीरैषा पाणिरप्यस्याः पारिजातस्य पल्लवः । कुतोऽन्यथा पततेष⁴ स्वेदच्छद्मामृतद्रवः ॥ १८ ॥ सुसङ्गता—सहि ! अदिनिट्ठुरा दाणिं सि, तुमं, जा एव्वं भट्टिणा हत्थेबलंबिदा बि कोवं ण मुंचेसि⁵ । (ग) सागरिका—(ससम्भ्रमम्) अइ सुमङ्गदे ! अज्ज वि ण विरमसि ! ( घ ) (क) भर्तः, अतिकोपना खलु एषा । तद् अग्रहस्ते गृहीत्वा प्रसादय एनाम् । (ख) भोः, एषा खलु त्वया अपूर्वा श्रीः समासादिता । (ग) सखि, अतिनिष्ठुरा इदानीमसि त्वम्, या एवं भर्त्रा हस्ते अवलम्बितापि कोपं न मुञ्चसि । (घ) अयि सुसङ्गते ! अद्यापि न विरमसि !

  1. पदस्खलितैः । 2. करिष्यति । 3. हत्थे । 4. स्रवतेषः । 5. अदक्खिणा ...गहिदावि ।