भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 218, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 218

द्वितीयोऽङ्कः १७३ राजा—प्रिये सागरिके ! १न खलु सखीजने युक्तमेवं कोपानु- बन्धं कर्तुम्२ । विदूषकः३—भोदि ! बुभुक्खिदो बह्मणे विअ किं कुप्पसि ? ( क ) सुसङ्गता*—सहि ! तुए सह ण बोलइस्सं४ । (ख) राजा—अयि कोपने ! नैतद्युक्तं समानप्रतिपत्तिषु सखीषु५ । विदूषकः—एसा क्खु अवरा देवी बासबदत्ता ! (ग) ( राजा सचकितं सागरिकाया हस्तं मुञ्चति ) सागरिका—( ससम्भ्रमम्) सुसंगदे ! किं दाणिं करिस्सं ? (घ) सुसङ्गता—सहि ! एदं तमालविड़बं६ अंतरिअ इदो णि- क्कमह्म । (ङ) ( इति निष्क्रान्ते ) राजा—( पार्श्वतोऽवलोक्य सवैलक्ष्यम् ) क्कासौ देवी वासवदत्ता ? विदूषकः—७भो ! सा एदं । सा क्खु७ अवरा देवी बासबदत्ता अदिदीहररोसदाएत्ति भणिदं । ( च ) (क) भवति, बुभुक्षितः ब्राह्मणः इव किं कुप्यसि ? (ख) सखि, त्वया सह न वदिष्यामि । (ग) एषा खलु अपरा देवी वासवदत्ता ! (घ) सुसङ्गते, किमिदानीं करिष्यामि ? (ङ) सखि, एतं तमालविटपम् अन्तरित्वा निष्क्रामावः । (च) भोः, सा इदम् । सा खलु अपरा देवी वासवदत्ता अतिदीर्घरोषतयेति भणितम् । १. न खलु युज्यते सखीजने एवंविधः कोपानुबन्धः । २ अयि प्रसीद । ३, ४, ५. पुस्तकान्तरे न दृश्यते । ६. एदाए कदलीवीधियाए । ७. ण आणामि क सा । मए एसा क्खु...। or मा ण' एदं । पुस्तकान्तरेषु सागरिकाया उक्तिरियम् ।