भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 223, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 223

178 रत्नावली तक्केमि भट्टिणीं एव्व पडिवालअंतो चिट्ठदित्ति । ता उवसप्पदु भट्टिणी । (क) वासवदत्ता ( उपसृत्य ) जअदु जअदु अज्जउत्तो । (ख) विदूषकः—( कक्षायां फलकं निक्षिप्य उत्तरीयॆण प्रच्छादयति ) एसा क्खु देवी आगदा¹ । (ग) राजा—( अपवार्य्य ) वयस्य ! प्रच्छादय चित्रफलकम्² । देवि ! स्वागतम् ! इहास्यताम्³ । वासवदत्ता—( उपविश्य ) अज्जउत्त ! अध सच्चं ज्जेव्व कुसुमिदा णोमालिआ ? (घ) राजा—( सस्मितम् ) प्रथममागतैरस्माभिश्च चिरयसीति न सा दृष्टा । तदेहि । समेतावेव⁴ तां पश्यावः । वासवदत्ता—( निर्वर्ण्य ) अज्जउत्त-मुहाणुराआदो ज्जेव्व मए जाणिदं जहा कुसुमिदा णोमालिआत्ति । ता⁵ गमिस्सं । (ङ) (क) भवि', यथा समीपे भर्त्ता भज्यते, तथा तर्कयामि भर्त्रीमेव प्रतिपालयन् तिष्ठति । तद् उपसर्पतु भर्त्री । (ख) जयति जयति आर्य्यपुत्रः ! (ग) एषा खलु देवी आगता । (घ) आर्य्यपुत्र, अथ सत्यमिव कुसुमिता नवमालिका ? (ङ) आर्य्यपुत्रमुखानुरागात् एव मया ज्ञातं यथा कुसुमिता नवमालिका इति । तद् गमिष्यामि ? 1 पुस्तकान्तरे नास्ति । 2 विदूषको गृहीत्वा कक्षे निक्षिपति । 3 पुस्तकान्तरे नास्ति । 4 सहितावेव । 5 ता अ ।