रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 224, कुल 520 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः 179 विदूषकः—भोदि ! जइ एव्वं ता जिदं अह्मेहिं¹ । (क) ( इति बाहू प्रसार्य्य नृत्यति । कच्छायाः फलकं पतति । तद् दृष्ट्वा विषादं नाटयति² ) ( राजापवार्याङ्गुल्या दर्शयन् वसन्तकमुखं पश्यति³ ) विदूषकः—( अपवार्य्य ) भो ! मा कुप्प । तुमं⁴ चिट्ठ । अह ज्जेव्व एत्थ जाणिस्स⁵ । (ख) काञ्चनमाला—( फलकं गृहीत्वा ) भट्टिणि ! पेक्ख दाव किं एत्थ चित्तफलए आलिहिदम् । (ग) (क) भवति, यदि एवं तत् जितमस्माभिः । (ख) भोः, मा कुप्य । त्वं तिष्ठ, अहमेवात्र ज्ञास्यामि । (ग) भर्त्रि, प्रेक्षस्व तावत् किमत्र चित्रफलके आलिखितम् । कथमपि दैवात् प्राप्ता अधिगता कण्ठम् अनीता एव ( कान्तापक्षे ) कण्ठाश्लेषम् अप्रापिता एव ; ( रत्नमालापक्षे ) कण्ठं गलदेशमप्रापितैव । प्रकटरागा ( कान्तापक्षे ) सुस्पष्टानुरागा ; ( रत्नमालापक्षे ) प्रकाशितलौहित्या । कान्ता रत्नावलीव मम हस्ताद् भ्रंशिता विस्राविता । वासवदत्तागमनमुत्प्रेक्ष्य राज्ञा सागरिकायाः हस्तावलम्बः परित्यक्तः । आर्यावृत्तम् । छेकानुप्रासोपमा ॥१८॥ प्रतिपालयन् अपेक्षमाणः मुखानुरागात् राज्ञः मुखलावण्यविशेषात् । Prose order.—कथमपि दैवात् प्राप्ता सा प्रकटरागा कान्ता रत्नावली इव कण्ठम् अनीता एव मम हस्तात् भवता भ्रंशिता ॥ १८ ॥ Beng. Trans. রাজা—ধিক্ মূর্খ,—উজ্জ্বল লোহিতবর্ণবিশিষ্ট। রত্নাবলীর ন্যায় সেই অনুরাগপ্রকাশকারিণী কান্তাকে দৈবযোগে বহু কষ্টে লাভ করিয়া কণ্ঠে ধারণ করিতে না করিতেই আমার হস্ত হইতে তোমাকর্তৃক ভ্রংশিত হইল ॥১৮॥ 1 ही ही भो ! जिदं जिदं ... । 2 कक्षात् पतितं फलकं दृष्ट्वा विषादं नाटयति । क्वचित् पुस्तके—तद् दृष्ट्वा विषादं नाटयतीति पाठः नास्ति । 3 (राजा अपवार्य्य विदूषकमङ्गुल्या तर्जयति) । 4 तुम हीही । 5 तुमं चिट्ठ इति क्वचित् नास्ति ; अहं ज्जेव्व पच्छादइस्सं ।