रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished520 पृष्ठ
पृष्ठ 229, कुल 520 में से
संदर्भ में पढ़ेंपृष्ठ 229
184 रत्नावली न मे दोषोऽस्तीति त्वमिदमपि च ज्ञास्यसि मृषा किमेतस्मिन् वक्तुं क्षममिति न वेद्मि प्रियतमे ॥ २० ॥ वासवदत्ता—( सवियं पटाञ्चलमाकर्षन्ती ) अज्जउत्त ! मा अण्णथा संभावेहि । सच्चं मं सीसवेदना बाहेदि¹ । ता गमिस्सं । (क) ( इति निष्क्रान्ता ) (क) आर्यपुत्र, मा अन्यथा संभावय । सत्यं मां शीर्षवेदना बाधते । तत् गमिष्यामि । सवैलक्ष्यम् विलक्षस्य विजितस्य विमूढस्य लज्जितस्य वा भावो वैलक्ष्यम् इति ष्यञ्- प्रत्ययः । तेन सह विद्यमानं यथा स्यात् तथा “विलक्षो विस्मयान्विते” इत्यमरः । आकृत्या आकृत्याः आकृतिरित्यर्थः । विज्ञाणम् आलिख्यानैपुण्यम् । ब्रह्मसूत्रेण यज्ञोपवीतेन । घुणाक्षरम् घुणः घुणाख्यः कीटविशेषः जातिस्वभावात् काष्ठं बिलिखन् काकतालीयन्यायेन