रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 266, कुल 520 में से
संदर्भ में पढ़ेंतृतीयाेऽङ्कः 221 काञ्चनमाला—हला मदणिए ! किं तब एदिणा पुच्छिदेण पओअणं ? तुमं इमं रहस्सं रक्खिदुं ण पारेसि । (क) मदनिका—सवामि देवीए चरणेहिं जइ कस्सवि पुरदो पआसेमि ! (ख) काञ्चनमाला--जइ एव्वं ता सुण, कहइस्सं । अज्ज क्खु मए राअकुलादी पड़िणिवत्तमाणाए चित्तसालिआदुवारे बसं- तअस्स सुसंगदाए समं आलाबो सुदो । (ग) मदनिका—( सकौतुकम् ) सहि ! कीदिसो ? (घ) काञ्चनमाला—जह—सुसंगदे ! णहि सागरिअं वज्जिअ पिअबअस्सस्स अण्णं किं पि अस्सत्थदाए कारणं¹ । ता एत्थ पड़ि- आरं चिंतेहि । (ङ) मदनिका—तदो सुसंगदाए किं भणिदं ? (च) काञ्चनमाला—तदो ताए एव्वं भणिदं—अज्ज क्खु देवीए (क) हला मदनिके, किं तव एतेन पृष्टेन प्रयोजनम् ? त्वमिदं रहस्यं रक्षितुं न पारयसि । (ख) शपामि ( शपे ) देव्याः चरणाभ्याम् ( चरणैः ) यदि कस्यापि पुरतः प्रकाशयामि ! (ग) यदि एवं तत् शृणु, कथयिष्यामि । अद्य खलु मया राजकुलात् प्रतिनिवर्त्त- मानया चित्रशालिकाद्वारे वसन्तकस्य सुसङ्गतया सममालापः श्रुतः । (घ) सखि, कीदृशः ? (ङ) यथा—सुसङ्गते, न सागरिकां वर्ज्जयित्वा प्रियवयस्यस्य अन्यत् किमपि अस्वस्थतायाः कारणम् । तदत्र प्रतिकारं चिन्तय । (च) ततः सुसङ्गतया किं भणितम् ? 1 कारणं ।