रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 267, कुल 520 में से
संदर्भ में पढ़ें222 रत्नावली चित्तफलअबुसंतसंकिदाए साअरिअं मम हत्थे समप्पयं तीए जं नेवच्छं १ मे पसादीकिदं तदो तस्सिं २ ज्जेव विरइदभट्टिणो- वेसं साअरिअं गेण्हिअ अहं पि कंचणमालाविसधारिणी भविअ पदोसकाले ३ भट्टिणो ४ आगमिस्सं । तुमं बि इह आट्ठिदा पडि- बालइस्सि ५ । माहबीलदामण्डवे ताए सह भट्टिणो समागमो भविस्सदि ६ । (क) मदनिका—सुसंगदे ! इदासि ७ क्खु तुमं जइ ८ एब्बं परि- अणवच्छलं देइ ं ९ बंचेसि ! (ख) (क) ततः तया एवं भणितम्—अद्य खलु देव्या चित्रफलकवृत्तान्तशङ्कितया सागरिकां मम हस्ते समर्पयन्त्या यत् नेपथ्यं मे प्रसादीकृतं ततः तस्मिन् एव विरचितभर्त्तृ- वेशां सागरिकां गृहीत्वा अहमपि काञ्चनमालावैशधारिणी भूत्वा प्रदोषकाले भर्तुः आगमिष्यामि । त्वमपि इह चास्थिता प्रतिपालयिष्यसि । ततः माधवीलतामण्डपे तया सह भर्तुः समागमो भविष्यति । (ख) सुसङ्गते, इतासि त्वम् यदि एवं परिजनवत्सलां देवीं वञ्चयसि ! अथ द्वितीयाङ्के वत्सराजं प्रति सागरिकायाः रागातिशयं प्रदर्श्य वत्सराजस्य सागरिकायां अनुरागविशेषं दर्शयितुं तृतीयाङ्कमवतारयति । सागरिकां प्रति रागातिशयेन वासवदत्तया विच्छेदेन पुनः प्राप्त्या पुनः विच्छेदेन प्राप्त्या च अस्याङ्कस्य गर्भसन्धेः विषयी- भूतत्वम् इति गोलार्थः । आकाशे, आकाशभाषितेन उक्तिरित्यर्थः । तल्लक्षणम् दशरूपके “किं ब्रवीष्येवमित्यादि बिना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येकस्तत् स्यादा- काशभाषितम्” । सौतप्रासम् सोपहासम् । अतिशयितः अतिक्रान्तः सन्धिविग्रहचिन्तया सन्धिविग्रह- विचारणेन इत्यर्थः । यथा प्रधानामात्यः यौगन्धरायणः राज्यस्य सन्धिविग्रहादिकं चिन्तयति
- णेवत्थं । 2. तेण ज्जेव । 3. पदोसी सञ्चामं । 4. इह (इध) । 5. तुमं पि चित्तसालिआदुवारि मं— । तुमं पि इह द्विती ज्जेव पड़िवालइस्सि, तदी... । 6. हुविस्सदि । 7. इदासा । 8. जा । 9. देविं ।