रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 274, कुल 520 में से
संदर्भ में पढ़ेंबाणा इति। मनोभवस्य कामदेवस्य पञ्च बाणाः नियताः निश्चिताः। तेषां बाणानाम् असंख्यः संख्यारहितः अस्मद्विधः कामप्रपीड़ितः इत्यर्थः। जनः प्रायः लक्ष्यः शरव्यः इति यत् लोके प्रसिद्धिं गतं ख्यातम्, तत् त्वयि अधुना विप्रतीपं दृष्टम्। यस्मात् इति अनेन विप्रतीपत्वस्य कारणं दर्शयति। अयम् अशरणः असहायः निराश्रय इति यावत् कामिजनः मद्विधः इत्यर्थः। त्वया पञ्चतां पञ्चसंख्यावत्ताम्, अथवा पञ्चमहाभूततां मृत्युम् इति यावत्, नीतः। पूर्वं ते बाणाः पञ्च कामिजनाश्च असंख्या आसन्। अधुना पुनः वैपरीत्येन ते बाणाः असंख्या भूताः कामिजनान्तु पञ्चत्वं ( पञ्चसंख्याकत्वम् अथच मृत्यम् ) प्राप्ताः। शार्दूलविक्रीडितं वृत्तम् ॥३॥ एवंविधावस्थम् एवं विधा अवस्था दशा यस्य तम्। अन्तर्गूढकोपसम्भारयाः अन्तः मनसि गूढः निभृतः कोपसम्भारः क्रोधातिशयः यया तस्याः देव्याः लोचनगोचरगतां दृष्टि- विषयत्वम् आयान्तीम् ताम् एव तपस्विनीं दीनां सागरिकाम् अनुचिन्तयामि। हियेति। सर्व्वस्य अग्रे विदितास्मि मद्व्यापारः सर्व्वेषां जनानां ज्ञानगोचरमायात इति सा प्रिया सागरिका इत्यर्थः। ह्रिया लज्जया वदनम् अधो नयति। द्वयोः द्वयोः कयोरपि जनयोः आलापं भाषणं दृष्ट्वा आत्मविषयाम् आत्मसम्बन्धिनीं कथां कल्पयति चिन्तयति। सखीषु आशु हास्यवदनासु सतीसु सा वैलक्ष्यम् विक्षिप्तत्वं प्रकटयति प्रकाशयति। एवंप्रकारेण सा सागरिका हृदये निहितः यः आतङ्कः भयं तेन विधुरा विह्वला आस्ते तिष्ठति। शिखरिणी वृत्तम् ॥४॥ तद्वृत्तान्वेषणाय तस्याः सागरिकायाः वार्त्ता तस्याः अन्वेषणाय। इदं गर्भसन्धिमध्ये अन्वेषणम्। साहित्यदर्पणे गर्भसन्धिलक्षणम् द्रष्टव्यम्। Prose order :—हे हृदय, स्मरानलकृतः अयं सन्तापः सम्प्रति सह्यताम्। अस्य उपशमः नास्ति। तां प्रति मुधा पुनः किं त्वं ताम्यसि ?—यत् मूढेन मया तदा कथमपि प्राप्तः सान्द्रचन्दनरसस्पर्शः तस्याः करः चिरं गृहीत्वा ( अपि ) त्वयि न विन्यस्तः ॥१॥ मनः मे प्रकृत्या एव चलं दुर्लक्ष्यं च। तथापि एतत् कामेन सर्वैः शिलीमुखैः कथं समं विद्धम् ? ॥२॥ मनोभवस्य बाणाः पञ्च नियताः, तेषाम् अस्मद्विधः असंख्यः जनः प्रायः लक्ष्यः