भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 302, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 302

तृतीयोऽङ्कः २४7 विदूषकः—(आत्मगतम्) किं दाणिं एत्थ विरअइस्सं ? भोदु, एव्वं दाव। (प्रकाशम्) भोदि ! महाणुभावा क्खु तुमं। ता खमीअदु दाव एक्को अवराहो पिअवअस्सस्स। (क) (क) किमिदानीमत्र विरचयिष्यामि। भवतु एवं तावत्। भवति, महानुभावा खलु त्वम्। तत् क्षम्यतां तावत् एकः अपराधः प्रियवयस्यस्य। हताश मृत इति सोल्लुण्ठनोक्तिः। हता आशा यस्य सः। यस्य आशा नास्ति स मृत एव। कुपिताः याः कामिन्यः तासां कपोलसन्निभः चारुश्च इत्यर्थः। मृगलाञ्छनः चन्द्रः। आरुह्यति। निशानाथः चन्द्रः। पुरस्तात् अग्रे शैलशिखरं उदयाचलम् इत्यर्थः। आरुह्य। तव वदनेन अपहृतं चोरितं कान्तिसर्व्वस्वं सौन्दर्य्यसर्व्वं यस्य सः। तादृशः सन् प्रतिकर्तुमित्र प्रतीकारं कर्तुम् इव शैलशिखरम् उदयाचलम् आरुह्य (चन्द्रपक्षे) ऊर्द्धकरः ऊर्द्धं कराः किरणाः यस्य सः अथवा (तपस्विपक्षे) ऊर्द्धम् उत्तोलितः हस्तः यस्य सः स्थितः। यथा कश्चिद् अपहृतसर्व्वस्वः शत्रुमाहन्तुम् ऊर्द्धं स्थानमारुह्य करमुत्तोल्य तिष्ठति, तथायं चन्द्रः लद्वदनकान्त्या जितकान्तिः सन् तत्प्रतिक्षिकीर्षया उदयाचल- मारुह्य स्वकरम् ऊर्द्धं प्रेरयतीति आशयः। शृंषानुप्रणितोत्प्रेक्षालङ्कारः। आर्या- वृत्तम् ॥११॥ जडत्वम् मान्द्यं, जलरूपत्वं वा। चन्द्रस्य जलरूपत्वं पुराणप्रसिद्धम्। किं पद्मस्येति। तव वक्त्रेन्दुः पद्मस्य किं रुचिं शोभां न हन्ति? अपि तु हन्त्येव इत्यर्थः। नयनानन्दं किं न विधत्ते? नयनमाह्लादयत्येव। आलीकमात्रेण दृष्टिमात्रेण झष- केतनस्य मीनकेतनस्य कामदेवस्य इत्यर्थः। वृद्धिं न कुरुते किम्? करोत्येव। अथवा झषकेतनस्य समुद्रस्य वृद्धिं न कुरुतं किम्? चन्द्रोदये समुद्रस्य वृद्धिः भवतीति प्रकृति- नियमात्। तव वक्त्रे न्दौ सति विद्यमाने यद् यस्मात् अयम् अपरः त्वन्मुखचन्द्रापेक्षया अन्यः शीतांशुः चन्द्रः उज्जूम्भते उदेति तत् सर्व्वथा व्यर्थमेव। अमृतेन मे पद्मत्वमस्तीति चन्द्रस्य दर्पः चेत् तदमृतम् तवापि बिम्बाधरं अस्त्येव। एवं पद्मकान्त्यादिच्छननादि- व्यापारे तन्मुखचन्द्रस्य पर्य्याप्तत्वात् पुनरस्य चन्द्रस्य तत्कार्य्यकरणार्थम्युदयः सर्व्वथा तस्य बुद्धिमान्द्यं प्रकाशयति। रूपकव्यतिरेकावलङ्कारौ। शार्दूलविक्रीड़ितं वृत्तम् ॥१२॥ 17