भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 308, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 308

[Header] तृतीयोऽङ्कः 263

यतः समारूढा प्रीतिः प्रणयबहुमानादनुदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया । प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमसौ प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भवति ॥ १५ ॥

प्रत्यक्षं दृष्टं व्यलीकमप्रियकार्यं येन सः। अहम् इत्यर्थः। प्रत्यक्षम् अपराधं कृत्वा तन्निराकरणाय किं ब्रवीमीत्यर्थः । विवर्णः विगतः वर्णः कान्ति र्यस्य सः लज्जया- दगतकान्तिरित्यर्थः । अथवा अद्य विवर्णः नीचवत् कुत्सितकार्य करणादित्यर्थः । 'विवर्णः पामरो नीचः ।

आताम्रतामिति । लाक्षारुताम् अलक्तककृताम् आताम्रता लौहित्यं मूर्द्ध्ना शिरो- घर्षणेन इत्यथः । अपनयामि दूरीकरोमि । मुखेन्दुबिम्बे मुखचन्द्रबिम्बे कोपोपरागजनिता कोपेन कृतः यः उपरागः लौहित्यं (ग्रहणा वा) तेन कृताम् पाताम्रता हर्तुं क्षमः यदि मयि त करुणा स्यात् । इदानीं प्रमादनार्थं चरणयोः तं शिरस विलुठामि, पश्चात् अनेन प्रकारेण त करुणा भवति चेत् तदानीं जातस्पर्शः सन् मुखं तं चुम्बामि । वसन्ततिलक- वृत्तम् ॥ १४॥

अपण्डितं चर्नाभङ्गं । समारूढे ति । अनुदिन बहुमानात् सत्कारात् प्रीतिः समारूढा विवर्द्धिता । इद मया अकृतपूर्व्वं व्यलीकम् अप्रियकार्यं कृतं वीक्ष्य विलोक्य अद्य असदना असहिष्णु सतौ प्रिया जीवित प्राणान् मुञ्चति त्यज्यति । भविष्यत्- सामीप्ये वर्त्तमानत्वम् । हि यस्मात् प्रकृष्टस्य चातिशयस्य प्रेम्नः प्रणयस्य स्खलितं प्रमादः अविषह्यं असह्यं भवति । शिखरिणी वृत्तम् ॥ १५॥

Prose order .—देवि, विवर्ण एषः अद्य लाक्षारुता तव चरणयोः आताम्रता मूर्द्ध्ना अपनयामि । मुखेन्दुबिम्बं तु कोपोपरागजनिता ( आताम्रता ) हर्तुं क्षमः यदि मयि (तं) पर करुणा स्यात् ॥ १४॥

प्रणयबहुमानात् अनुदिनं प्रीतिः समारूढा । मया अकृतपूर्व्वम् इदं व्यलीकं कृतं