रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 312, कुल 520 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः २६७ विदूषकः भो ! किं मूढो विअ चिट्ठसि ? चिंतेहि एत्थ पडिआरं । (क) राजा - वयस्य ! तदेव चिन्तयामि । देवीप्रसादं मुक्त्वा नान्यमुपायं पश्यामि । तदेहि । तत्रैव गच्छावः । ( इति परिक्रामतः ) सागरिका— ( आत्म विमृश्य ) बरं दाणिं सअं ज्जेब्ब अत्ताणअं उब्बंधिअ उबरदा भविस्सं, जेण ण उण जाणिदसङ्केदबुत्तं- ताए देवीए सुसंगदा विअ परिभूदह्नि । ता जाब अहं असोअ- पादवतले गदुअ जधामौहिदं करिस्सं । (ख) ( इति परिक्रामति ) विदूषकः ( आकर्ण्य ) चिट्ठ दाब, चिट्ठ¹ । णं पदसद्दो सुणी- यदि । जाणामि कदाबि गहिदपच्छादावा पुणोबि देवी आगदा भवे । (ग) राजा- वयस्य ! महानुभावा खलु देवी । कदाचिदेव- मपि स्यात् । • तत्त्वरितं निरूपय² । विदूषकः--जं भवं आणवेदि । (घ) ( इति निष्क्रामति ) (क) भोः, किं मूढ इव तिष्ठसि, चिन्तय अत्र प्रतीकारम् । (ख) वरमिदानीं स्वयमेव आत्मानम् उद्धध्य उपरता भविष्यामि, येन न पुनः ज्ञातसङ्केतवृत्तान्तया देव्या सुसङ्गता इव परिभूतास्मि । तद् यावदहम् अशोकपादपतलं गत्वा यथासमीहितं करिष्यामि । (ग) तिष्ठ तावत्, तिष्ठ । ननु पदशब्दः श्रूयते । जानामि, कदापि गृहीत- पश्चात्तापा पुनरपि देवी आगता भवेत् । (घ) यद् भवान् आज्ञापयति ।
- चिट्ठ भो । 2. निरूप्यताम् ।