भारतकोश
रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)

Ratnavali Natika of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished520 पृष्ठ

पृष्ठ 321, कुल 520 में से

संदर्भ में पढ़ें
पृष्ठ 321

276 रत्नावलो राजा—अयि मुग्धे ! किमद्यापि मध्यस्थतया वयं विफल- मनोरथाः क्रियामहे ? काञ्चन—(कर्णं दत्त्वा) भट्टिणि ! जह समीबे एसो भट्टा मंतयदि तह तक्केमि तुमं ज्जेव्व अणुणेदुं आगच्छदि । ता उबसप्पदु भट्टिणो । (क) वासबदत्ता—ता अलक्खिदा एव्व पुट्ठदो गटुअ कंठे गेह्रिअ पसादइस्सं । (ख) विदूषकः—भोदि साअरिए ! बीसद्धा भविअ पिअबअस्स' आलावेहि । (ग) वासवदत्ता—(आकर्ण्य सविषादम्) कंचणमाले ! 'साअरिश्रा- बि एत्थ एव्व चिट्ठदि । ता सुणह्म । जाणिअ पच्छा उब- सप्पिस्सं । (इति तथा करोति) (घ) सागरिका—भट्टा ! किं एदिणा अलीकदक्खिणेण ? जीविदादो बि अहिअवल्लहाए देवीए पुणोबि अत्ताणअं अबरा- हिणं किं करेसि ? (ङ) (क) भर्त्रि, यथा समीपे एष भर्त्ता मन्त्रयते, तथा तर्कयामि त्वामेव अनुनेतुम् आगच्छति । तद् उपसर्पतु भर्त्री । •(ख) तद् अलक्षिता एव पृष्ठतः गत्वा कण्ठे गृहीत्वा प्रसादयिष्यामि । (ग) भवति सागरिके, विश्रब्धा भूत्वा प्रियवयस्यम् आलापय । (घ) काञ्चनमाले, सागरिकापि अत्र तिष्ठति । तच्छृणुवः । ज्ञात्वा पश्चात् उप- सर्पिष्यामि । (ङ) भर्तः, किमेतेन अलीकदाक्षिण्येन ? जीवितादपि अधिकवल्लभायाः देव्याः पुनरपि आत्मानम् अपराधिनं किं करोषि ?

  1. कहं साअरिआ इदी जेव्व बाअदा !