रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 322, कुल 520 में से
संदर्भ में पढ़ेंतृतीयोऽङ्कः 277 राजा—अयि ! मिथ्यावादिनी खल्वसि । कुतः— श्वासोत्कम्पिनि कम्पितं कुचयुगे मौने प्रियं भाषितं वक्त्रे ऽस्याः कुटिलीकृतभ्रूणि तथा¹ यातं मया पादयोः । इत्थं नः सहजाभिजात्यजनिता सेवैव देव्याः परं प्रेमाबन्धविवर्द्धिताधिकरसा प्रीतिस्तु या सा त्वयि ॥१८॥ मध्यस्थतया चौदासीन्येन । विश्रब्धा निर्भयम् । अलीकदाक्षिण्येन मिथ्यादाक्षिण्येन अधिकवल्लभाया अधिकप्रियया । श्वासोत्कम्पिनीति । अस्याः श्वासेन घननिःश्वासेन उत्कम्पिनि वेपथुमति स्तनयुगे मया कम्पितम् । तस्याः मौने विरतवचनायां तस्यां मया प्रियं भाषितम् । कथितम् । कुटिलीकृतभ्रूणि कुटिलीकृता वक्रीकृता भ्रूः यस्य तस्मिन् वक्त्रे मुखे अस्याः देव्याः पादयोः मया यातं पतितम् । इत्थं यां देव्याः सेवा एव परं केवलं सा सहजं स्वाभाविकं यद् आभिजात्यं तेन जनिता कृता । आभिजात्यवशात् परं तामकोपयित्वा सेवयैव केवलया परितोषयाम्येव । त्वयि तु या प्रीतिः सा प्रेम्णः प्रणयस्य यः आबन्धः गाढ़त्वं तेन विवर्द्धितः अधिकः अतिशयः रसः अनुरागः यस्यां सा । एवम्भूता प्रीतिः त्वयि मे स्वाभाविकी इति भावः । शार्दूलविक्रीडितं वृत्तम् ॥१८॥ Prose order—अस्याः श्वासोत्कम्पिनि कुचयुगे मया कम्पितम्, मौने प्रियं भाषितम्, तथा वक्त्रे कुटिलीकृतभ्रूणि पादयोः पतितम् । इत्थं देव्याः नः सेवा परं सहजाभिजात्यजनिता एव । त्वयि तु या प्रीतिः सा प्रेमाबन्धविवर्द्धिताधिकरसा ( भवति ) ॥१८॥ Beng. Trans. রাজা—অয়ি সরলে, তুমি তোমার ঔদাসীন্যে আমাকে কি এখনও বিফলমনোরথ করিবে? ( অথবা, এখনও কেন বিফলমনোরথ করিতেছ? ) কাঞ্চনমালা—( শুনিয়া ) দেবি, যখন নিকটে মহারাজ কথা বলিতেছেন, তখন মনে হয় আপনাকেই অনুনয় করিবার জন্য আসিতেছেন। অতএব, দেবি, আপনি অগ্রসর হউন।
- रुषा।