रत्नावली नाटिका (सम्राट हर्षवर्धन - शास्त्रीय नाटिका रत्न सम्पूर्ण ४ अङ्क सान्वय सटीक)
Ratnavali Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 351, कुल 520 में से
संदर्भ में पढ़ें306 रत्नावली P. 254. विश्रब्धा—Confidently. वि—श्रम्भ् + क्त + स्त्रियाम् टाप् । “विश्रब्धः केलिकलहे विश्वासे प्रणये वधे”—हेमचन्द्रः । P. 255. कटुकितानि—कटुः एव इति कटु + स्वार्थे क = कटुकः । कटुक + इतच् तारकादित्वात् । कटुकित means “Embittered.” सुखयतु—सुखं करोतु इति सुख + णिच् ( तत् करोति तदाचष्टे—इत्यादिना ) + लोट् तु । अथवा सुख दुःख तत्क्रियायाम् + लोट् तु । मधुरवचन etc.—मधुराणि वचनानि ( कर्मधा ) तेषाम् उपन्यासः ( ६ष्ठीतत् ) । उप - नि - अस् + घञ् = उपन्यासः, use. प्रियंवदः—प्रियं वदतीति प्रिय - वद् + खच् । कुपितकामिनी—Adj. to मृगलाञ्छनः । कुपिता कामिनी ( कर्मधा ) तस्याः कपोलम् ( ६ष्ठीतत् ) तस्य सन्निभः ( ६ष्ठीतत् ) । As the checks of a lady grow reddish through anger, so the Eastern direction has assumed the reddish hue just on the eve of the rise of the moon. मृगलाञ्छनः—The moon ; मृगः लाञ्छनं ( कलङ्कः ) यस्य ( बहु ) सः । “कलङ्काङ्कौ लाञ्छणञ्च चिह्नं लक्ष्म च लक्षणम्”—अमरः । The spot on the moon is conventionally called मृग, हरिण (deer) and sometimes शशक, शश ( hare ) ; and accordingly the moon is called मृगाङ्क, शशाङ्क etc. Sl. 12. त्वद्वदनापहृत etc.—Adj. to निशानाथः । तव वदनं ( ६ष्ठीतत् ) तेन अपहृतम् कान्तिसर्व्वस्वं यस्य ( बहु ) सः । कान्तिः एव सर्व्वस्वम् ( रूपक—मयूर- व्यंसकादि ) सर्व्वस्वं ( कर्मधा ), कान्तिः सर्व्वस्वमिव ( उपमान कर्मधा ) । ऊर्ध्वकरः—(1) With rays scattered upwards. (2) With hands raised aloft. ऊर्ध्वः करः यस्य ( बहु ) सः । प्रतिकर्त्तुम्—To take revenge. N. B. Just as a person, being robbed of all (he had), takes